________________
FZS<
अजीवतत्त्वे
श्रीनवतत्त्वसुमङ्गलाटीकायां
>
| परिणामवर्णनम् ॥
॥४४॥
<
णामः, यथा ठिकरिका जले तथाप्रयत्नेन प्रक्षिप्ता सती जलस्याऽपान्तराले जलं स्पृशन्ती गच्छति, बालजनप्रसिद्धमेतत् । तथाऽस्पृशतो गतिपरिणामोऽस्पृशद्गतिपरिणामः, यद्व्यं न केनापि सहाऽपान्तराले संस्पर्शनमनुभवति तद्र्व्यस्याऽस्पृशद्गतिपरिणामः ॥ पुद्गलद्रव्याणां पारिमण्डल्यादिसंस्थानपञ्चकमध्ये केनापि संस्थानेन विरचनं स संस्थानपरिणामः । स्कंधाऽवस्थानेनाऽवस्थितानां पुद्गलद्रव्याणां यो भेदः स भेदपरिणामः। पुद्गलद्रव्येषु पञ्चप्रकारकवर्णानामुत्पत्तिः स वर्णपरिणामः। पुद्गलेषु गन्धस्योत्पत्तिः स गन्धपरिणामः । तेष्वेव पुद्गलेषु पञ्चप्रकाराणां रसानामुत्पत्तिः स रसपरिणामः । पुद्गलेष्वष्टप्रकारकस्य स्पर्शस्योत्पादः स स्पर्शपरिणामः । पुद्गलपरमाणुषु गुरुत्त्व-लघुत्त्व-गुरुलघुत्त्व-अगुरुलघुत्त्वानामुत्पत्तिः सोऽगुरुलघुपरिणामः । पुद्गलेपु तेन तेन प्रकारेण शब्दानामुत्पत्तिः स शब्दपरिणामः । इत्युक्तप्रकारेण पुद्गलद्रव्यं दशविधैः परिणामैर्युक्तत्वात् परिणामि, अन्यानि चत्वार्यप्यजीवद्रव्याणि परिणामवर्जितानि । अतः षट्स द्रव्येषु द्रव्ययुग्मं जीवपुद्गलाऽऽत्मकं परिणामि, शेषं धर्माऽधर्माऽऽकाशकाललक्षणं द्रव्यचतुष्कमपरिणामि ॥
षट्सु द्रव्येषु एक जीवद्रव्यं जीवस्वरूपं, शेषाणि पश्चाप्यजीवस्वरूपाणि ॥ मूर्त्तवपरीक्षायां पुद्गलद्रव्यमेकं मूर्तिमत् , शेषाणि पञ्चाऽप्यमूर्नानि, वर्ण-गन्ध-रस-स्पर्शा यस्मिन् विद्यन्ते तन्मूर्त, तेषां वर्णगन्धादीनां यस्मिन्नभावस्तदमूर्त्तम् । सप्रदेशि-अप्रदेशिनोः परिप्रश्ने धर्माऽस्तिकायाऽधर्माऽस्तिकायाऽऽकाशास्तिकायजीवाऽस्तिकायपुद्गलाऽस्तिकायाऽऽत्मकानि पश्चद्रव्याणि प्रदेशसमूहोपेतानि, अवशिष्टं कालद्रव्यं प्रदेशवर्जितं, अस्तिकायत्त्वाऽभावात् । षट्सु द्रव्येषु एकत्त्वाऽनेकत्त्व
१ जीवस्तु स्वस्वरूपाऽपेक्षयाऽमूर्त इत्यत्र स्वस्वरूपं चिन्तितमस्मिन् मूर्ताऽमूर्त्तविषये ।
1095z095
-
-卐>
॥४४॥
<