SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्रीनवतत्त्व सुमङ्गलाटीकायां॥४३॥ अजीवतत्त्वे जीवपरिणामवर्णनम् ॥ Hzyg>卐卐-'-> | परिणामश्च अवस्थाऽन्तरप्राप्तिलक्षणः, अत्राऽपि केवलज्ञानोपयोगाऽऽत्मकस्य पूर्वपरिणामस्य विनाशः, केवलदर्शनोपयोगपरिणामस्य चोत्पादः, आत्मनश्च ध्रुवक्त्वमिति सिद्धस्यापि परिणामित्त्वं संघटते, परिणामित्त्वं च भवद्भिः कर्मोपाधिजन्यं व्याख्यायते, कात्र समाधत्तिः ? उच्यते-सिद्धानामुपयोगाऽपेक्षया या परावृत्तिर्जायते सा न कर्मोपाधिजन्या, जीवस्याऽनन्तज्ञानाऽनन्तदर्शनौ गुणभूतौ, एतयोरुपयोगप्रवर्त्तनं प्रतिसमयमिति जीवस्य स्वभावो न तु परभावः, यदाऽयं जीवः कर्मप्रपञ्चपरिकलित आसीत्तदा न प्रतिसमयमुपयोगपरावृत्तिरभूत नाप्यनन्तज्ञानदर्शने चाविरभूताम् , सम्यग्दर्शनज्ञानचारित्राऽऽत्मकरत्नत्रय्याराधनपूर्वकः कर्मक्षयो यदा सज्जातस्तदा प्रादुर्भूतावेतावनन्तज्ञानदर्शनलक्षणावात्मगुणौ, ततोत्र परावृत्तिस्स्वभावजा न तु कर्मजन्या । अपि चाऽस्मिन् प्रकरणे यत् परिणामित्वं तच्च दशविधं, यदि सिद्धानां ज्ञानदर्शनोपयोगपरावृत्त्यपेक्षया परिणामित्त्वं गण्यते तदा उपयोगलक्षणमेकविधमेव परिणामित्वम् , ततोऽपि पूर्वव्याख्यातं दशविधं परिणामित्त्वं अत्र न घटत इति ॥ उक्तो जीवपरिणामः ॥ अथाऽजीवपरिणामः स च दशविधः पुद्गलपरिणामाऽऽत्मकः, तद्यथा-बंधनपरिणामः १ गतिपरिणामः २ संस्थानपरिणामः ३ भेदपरिणामः ४, वर्णपरिणामः ५ गन्धपरिणामः ६ रसपरिणामः ७ स्पर्शपरिणामः ८ अगुरुलघुपरिणामः९शब्दपरिणामः १० । तत्र तावदादौ बन्धनपरिणामो व्याख्यायते, स चैवम् समगुणस्निग्धस्य परमाण्वादे: समगुणस्निग्धेन परमाण्वादिना सह सम्बन्धो न भवति, तथा समगुणरूक्षस्यापि परमाण्वादेः समगुणरूक्षेण परमाण्वादिना सह सम्बन्धो न भवति, किन्तु यदि स्निग्धः स्निग्धेन रूक्षः रूक्षेण सह विषमगुणो भवति तदा विषममात्रत्वात्तेषां परस्परं सम्बन्धः। अयं बन्धनपरिणामोजीवपरिणामः यतो न जीवप्रदेशानामसंख्येषलोकाऽऽकाशप्रदेशप्रमाणानों बन्धनपरिणाम उप 94520-s el॥४३॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy