________________
N
A
(
A
--
T
V
सुज्ञेय॑म् । दृश्यते सामान्यतया वस्तुतत्त्वाऽवबोधो जायते येन तद्दर्शनं चक्षुर्दर्शनाऽचक्षुर्दर्शनाऽवधिदर्शनकेवलदर्शन मेदैश्वतुर्विधम्, ज्ञानपरिणामवदयं दर्शनपरिणामोऽपि जीवपरिणामः, जीवेष्वेव दृश्यमानत्त्वात्तस्य परिणामोत्पादविनाशध्रुवत्वानि च पूर्ववद् बोध्यानि, । चर्यते गम्यते सर्वकर्मक्षयं विधाय महानन्दस्थानस्वरूपं मोक्षं प्रति येन तच्चारित्रम्, तच्च सामायिकादिभेदैः पञ्चविधं वक्ष्यमाणस्वरूपं, अस्य चारित्रस्याऽऽत्मनो गुणत्त्वात् जीवपरिणामत्त्वं सुख्यातम् । सामायिकचारित्रः छेदोपस्थापनीयचारित्रो वा परिहारविशुद्धिसंज्ञकं चारित्रं सूक्ष्मसंपरायं यथाख्यातं वाऽवाप्नोति, अथवा औपशमिकः सूक्ष्मसंपरायाद् यथाख्याताद् वा पतित्त्वा छेदोपस्थापनीयं सामायिकं संयमं वा याति तदा तेषां चारित्राणामुत्पादविनाशापेक्षया आत्मनश्च ध्रुवतया परिणामित्त्वं चिन्त्यम् । वेद्यतेऽनुभूयते कामाऽऽसक्तित्त्वं येन स वेदः पुंवेद - स्त्री वेद-नपुंसकवेदात्मकमेदैखिप्रकारकः, अमुं वेदं जीवा एवाऽनुभवन्ति, नाऽजीवा अतस्सोऽपि जीवपरिणामः, विवक्षितवेदोदयात् वेदोदयाऽन्तरमुपजायते तदा परिणामित्त्वमुत्पत्तिविनाशधौव्यापेक्षिकमिति । दशविधोऽयं परिणामः कर्मोपाधिजन्यस्वरूपः प्रायोगिको न तु जीवस्य स्वस्वभावजः, अत एव पूर्वोक्तदशविधजीव परिणामाऽपेक्षया सिद्धानामपगतकर्म्मप्रपञ्चानामपरिणामित्त्वं सुतरां प्रतीयते । ननु सिद्धानामपि प्रतिसमयं ज्ञानोपयोगदर्शनोपयोगयोः परावृत्तिस्सञ्जायते, यतो यस्मिन् समये विवक्षितसिद्धः केवलज्ञानोपयोगपरिणतः तत्समयाऽनन्तरं तस्य विवक्षितसिद्धस्य केवलदर्शनोपयोगपरिणतत्त्वात् अवस्थाऽन्तरं जातं, १ परिणामित्त्वविषये यया रीत्या परिणामित्वं उदलेखि तयैव रीत्या तद् भवतीत्येवं न विज्ञेयं, प्रकाराऽन्तरैरपि परिणामित्त्वं भावयितुं शक्यते, ग्रन्थगौरवभयान्निखिलप्रकाराणां नाऽत्र प्रदर्शनं कृतं, शेमुषीवद्भिस्स्वधिया परिभावनीयम् ||
SUMZALA
N