________________
iz)
in 44
अजीवतत्वे द्रव्यानां परिणामि
वादिA स्वरूपम् ॥
भीनवतत्त्व- A पारो वाग्योगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याजीवव्यापारो मनोयोगः, स च योगस्त्रिविधः, सुमङ्गला- मनोवाकायलक्षणभेदात् , जीवमृते न किश्चिदपि द्रव्यं मनोवाकाययोगवत् , अतोऽयमपि योगपरिणामो जीवपरिणामः । संज्ञि- टीकायां- vl पञ्चेन्द्रियादिषु केषुचिजीवस्थानेषु त्रयाणामपि योगानां सत्तापेक्षया सद्भावेऽपि विवक्षिताऽनेहसि त्रयाणां योगानां सम॥४२॥
कालं व्यापाराऽपेक्षयाऽभावात् एक एवाऽन्यतमः कश्चिद् योगो वरीवर्त्तते, यदाऽन्तर्मुहूर्ताद्यनन्तरं योगपरावृत्तिस्सञ्जायते तदा पूर्वरीत्या योगपरिणामस्य विनाशोत्पादौ आत्मनश्च धौव्यं स्वयमेव परिमावनीयम् ॥ उपयुज्यते सामान्यतया विशेषतया वा वस्तुतत्त्वपरिज्ञानार्थमित्युपयोगः, स च द्वादशप्रकारकः प्राग्व्याख्यातस्वरूपः, उपयोगपरिणामोऽपि जीवं विहाय न केनचिद्रव्येणोररीक्रियते ततः सोऽपि जीवपरिणामः, परिणामित्वं चास्य मतिज्ञानोपयोगिनो श्रुतज्ञानोपयोगं गतस्याऽत्मनो मतिज्ञानोपयोगश्रुतज्ञानोपयोगाऽऽत्मनां यथासंख्यं विनाशोत्पादध्रुवत्वाऽपेक्षया विज्ञेयम् । ज्ञायते वस्तुतत्त्वं परिच्छिद्यतेऽनेन तज्ज्ञानं मत्यादिभेदभिन्नं पञ्चप्रकारकमष्टप्रकारकं वा, ज्ञानमेवपरिणामो ज्ञानपरिणामः, सोऽपि जीवं विनाऽनन्याऽऽधारत्वात् जीवपरिणामः, ज्ञानोपयोगयो दत्त्वं प्राग् व्यावर्णितमतो नात्र स्पष्टीकुर्मो वयम् , परिणामित्वं च मतिज्ञानश्रुतज्ञानवतः सम्यग्दृष्टे वस्य मिथ्यात्वयोगात् मत्यज्ञानं श्रुताऽज्ञानं जायते तदा अथवा घातिकर्मक्षपणाऽनन्तरं केवलज्ञानस्योत्पादे 'नट्ठम्मि छाउमथिए नाणे' इति वचनात् मतिज्ञानश्रुतज्ञानयोर्विनाशे च जाते विनाशोत्पादध्रुवत्वश्च
१ मत्यज्ञान-श्रुताऽज्ञान-विभङ्गज्ञानात्मकाऽज्ञानत्रिकप्रक्षेपादष्टकं ज्ञानस्य ।
卐5-5
3230se!
-57
॥४२॥