SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ V ( A --! T A T Tel S युज्यते एवेत्यादि तदप्यश्लीलं, लेश्यानामनुभागबन्धहेतुतया स्थितिबन्धहेतुत्वाऽयोगात्, अन्यच्च - कर्म्मनिष्यन्दः किं कर्मकल्क उत कर्म्मसार: ? न तावत्कर्म्मकल्कः, तस्यासारतया उत्कृष्टाऽनुभागबन्धहेतुत्वानुपपत्तिप्रसक्तेः, कल्को हि असारो भवति, असारश्च कथमुत्कृष्टाऽनुभागबन्धहेतुः ? अत्र च उत्कृष्टाऽनुभागबन्धहेतवोऽपि भवन्ति । अथ कर्म्मसार इति पक्षस्तर्हि कस्य कर्मणः सार इति वाच्यं ? यथायोगमष्टानामपीति चेदष्टानामपि कर्म्मणां शास्त्रे विपाका वर्ण्यन्ते, न च कस्यापि कर्म्मणो M लेश्याऽऽत्मको विपाक उपदर्शितः, ततः कथं कर्म्मसारपक्षी जाघटीति ? तस्मात् पूर्वोक्त एव पक्षः श्रेयान् इत्यङ्गीकर्त्तव्यः, पूज्यश्रीहरिभद्रसूरिभिरपि तत्र तत्र तथैवाङ्गीकृतत्त्वादिति । यथा सप्तधातुव्यतिरिक्ता वातपित्तकफात्मिकाऽऽहारपरिणतिरुपजायते तद्वन्मनोवाक्काययोगपरिणामव्यतिरिक्ता लेश्यालक्षणा योगद्रव्यपरिणतिरपि सज्जायते, ननु सिद्धान्ते योगद्रव्याणां योगत्रय- ह परिणामवल्लेश्या परिणामः कथं नोक्त इति चेद् वातपित्तकफलक्षणाऽऽहारपरिणतेरवश्यंभावेऽपि गृहीताऽऽहारस्य सप्तधातुत्वेन परिणाम एव केवलं शास्त्रे यथा श्रयते तथाऽत्रापि लेश्यालक्षणयोगपरिणामसद्भावेऽपि गृहीतमनोवाक्काययोगद्रव्याणां मनोवाक्काययोगत्वेन एव परिणामः सिद्धान्ते गीयते नचाऽत्र काचिदनुपपत्तिः, एवञ्च योगान्तर्गतद्रव्यत्त्वमपि लेश्यानां सम्यगुपपद्यत इति मे मतिः, तत्त्वं तु केवलिगम्यमिति । कृष्णादिभेदभिन्नायामस्यां कस्याञ्चिल्लेश्यायां वर्तमानो जीवो क विवक्षितलेश्यातो लेश्यान्तरं गच्छति तदा विवक्षित लेश्यापरिणामस्य विनाशः, अन्यतरलेश्यापरिणामस्य चोत्पादः, जीवस्य च ध्रुवत्वमिति । योगस्तत्त्वत औदारिकादिशरीरसंयोगसमुत्थ आत्मपरिणामविशेषव्यापारः, तद्यथाः - औदारिकादिशरीरयुक्तस्याऽऽत्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवागूद्रव्यसमूहसाचिव्याञ्जीवव्या- L N
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy