________________
!
z
Cy
>
श्रीनवतत्त्वसुमङ्गलाटीकायां
अजीवतत्त्वे लेश्यापरिणामस्वरूपम् ॥
<
॥४१॥
>
-卐
निमित्तं कषायोदयाऽन्तर्गतकृष्णादिलेश्या परिणामाः, ते च परमार्थतः कपायस्वरूपा एव, तदन्तर्गतत्वात् , केवलं योगाऽन्तर्गतद्रव्यसहकारिकारण भेदवैचित्र्याभ्यां ते कृष्णादिभेदैभिन्नास्तारतम्यभेदेन विचित्राश्चोपजायन्ते, तेन यद् भगवता कर्मप्रकृतिकृता शिवशाऽऽचार्येण शतकाऽऽख्ये ग्रन्थेऽभिहितं " ठिइ अणुभागं कसायओ कुणइ" इति तदपि समीचीनमेव, कृष्णादिलेश्यापरिणामानामपि कषायोदयाऽन्तर्गतानां कषायरूपत्वात् , तेन यदुच्यते कैश्चित्योगपरिणामत्त्वे लेश्यानां “जोगापयडिपएसं ठिइ अणुभागं कलायओ कुणइ" इति वचनात् प्रकृतिप्रदेशवन्धहेतुत्वमेव स्यान्न कर्मस्थितिहेतुच्चमिति, तदपि न समीचीनं, यथोक्तभावार्थापरिज्ञानात् , अपि च न लेश्याः स्थितिहेतवः, किंतु कपायाः, लेश्यास्तु कषायोदयाऽन्तर्गता अनुभागहेतवः, अत एव च " स्थितिपाकविशेपस्तस्य भवति लेश्याविशेषेण" इत्यत्राग्नुभागप्रतिपच्यर्थ पाकग्रहणं, एतञ्च सुनिश्चितं कर्मप्रकृतिटीकादिषु, ततः सिद्धान्तपरिज्ञानमपि न सम्यक्तेपामस्ति, यदप्युक्तं-कम्भेनिष्यन्दो लेश्या, निष्यन्दरूपच्चे हि यावत्कपायोदयस्तावन्निष्यन्दस्याऽपि सद्भावात् कम्मस्थितिहेतुचमपि
१ कपायोदयसहचारिणः कृष्णादिलेश्यापरिणाना अनुभागवन्धहेतव इत्यर्थः ॥
१ कर्मप्रकृतौ वन्धनकरणे — एकेकम्मि कसायोदयम्मि' इतिगाथाटीकायामः-एकैकस्मिन् कपायोदये स्थितिस्थाननिबन्धनभूते नानाजीवाऽपेक्षयाऽनुभागबन्धाऽध्यवसायस्थानानि कृष्णादिलेझ्यापरिणामविशेषरूपाणि " सकपायोदया हि कृष्णादिलेश्यापरिणामविशेषा अनुभाग बन्धहेतव" इतिवचनात् असंख्येया लोका भवन्ति असंख्येयलोकाऽऽकाशप्रदेशप्रमाणानि भवन्तीत्यर्थः [ कर्मप्रकृति-मलयगिरीयवृत्तिर्मुद्रिता-गाथा-५२-पत्र ४०]
9552095-
>卐
-
<卐
i>卐