SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ 095 izs<57555555 जीवोऽन्तर्मुहर्त्तानन्तरं मानकषायोदयवान् सञ्जातस्तदा क्रोधकषायाऽऽत्मकपरिणामस्य निवृत्तिर्मानकषायपरिणामस्य चोत्पत्तिः। आत्मनश्च ध्रुवत्त्वम् । लिष्यते श्लिष्यते आत्मा कर्मणा सहानयेति लेश्या, योगाऽन्तर्गतकृष्णादिद्रव्यसाचिव्यादात्मनः परिणामविशेषो लेश्या, उक्तश्च-'कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मनः। स्फटिकस्येव तत्राऽयं लेश्याशब्दः प्रवर्त्तते ॥१॥ ननु कानि कृष्णादीनि द्रव्याणि? उच्यते, इह योगे सति लेश्या, भवति, योगाऽभावे च न भवति, ततो योगेन सहाऽन्वयव्यतिरेकदर्शनात् योगनिमित्ता लेश्येति निश्चीयते, सर्वत्रापि तन्निमितत्त्वनिश्चयस्याऽन्वयव्यतिरेकदर्शनमूलत्त्वात् , योगनिमित्ततायामपि विकल्पद्वयमवतरति-किं योगाऽन्तर्गतद्रव्यरूपा, योगनिमित्तकर्मद्रव्यरूपा वा ? तत्र न तावद्योगनिमित्तकर्मद्रव्यरूपा, विकल्पद्वयाऽनतिक्रमात् , तथाहिः-योगनिमित्तकमद्रव्यरूपा सती घातिकमद्रव्यरूपा अघातिकमद्रव्यरूपा वा ? न तावद्वातिकर्मद्रव्यरूपा, तेषामभावेऽपि सयोगिकेवलिनि लेश्यायाः सद्भावात् , नाप्यघातिकर्मरूपा, तत्सद्भावेऽपि अयोगिकेवलिनि लेश्याया अभावात् , ततः पारिशेष्याद् योगाऽन्तर्गतद्रव्यरूपा प्रत्येया, तानि च योगान्तर्गतानि द्रव्याणि यावत्कपायास्तावत्तेषामप्युदयोपबृंहकाणि भवन्ति, दृष्टश्च योगाऽन्तर्गतानां द्रव्याणां कषायोदयोपबृंहणसामर्थ्यम् , यथा पित्तद्रव्यस्य, तथाहि-पित्तप्रकोपविशेषादुपलक्ष्यते महान् प्रवर्धमानः कोपः, अन्यच्च बाह्यान्यपि द्रव्याणि कर्मणामुदयक्षयोपशमाऽऽदिहेतवउपलभ्यन्ते, यथा ब्राह्मयौषधिर्ज्ञानावरणक्षयोपशमस्य, सुरापानं ज्ञानावरणोदयस्य, कथमन्यथा युक्ताऽयुक्तविवेकविकलोपजायते, दधिभोजनं निद्रारूपदर्शनावरणोदयस्य, तत्कि योगद्रव्याणि न भवन्ति ? अपि तु भवन्त्येव योगाऽन्तर्गतद्रव्याणि । तेन यः स्थितिपाकविशेषो लेश्यावशादुपगीयते शास्त्रान्तरे स सम्यगुपपन्नः, यतः स्थितिपाको नामाऽनुभाग उच्यते, तस्य | FDI KE HO BABA $25059-८y
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy