SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्रीवतत्व सुमङ्गलाटीकायां ॥ ४० ॥ an N S V परिणामः॥ A एवञ्च द्रव्यष्ट्रकमध्ये जीवपुद्गलद्रव्ये परिणामिनी, तत्र जीवपरिणामो दशविधः, पुद्गलपरिणामोऽपि दशविधश्च तत्राऽऽदौ अजीवतत्त्वे जीवपरिणामो व्याख्यायते, - स चैवम्:- गतिपरिणामः १ इन्द्रियपरिणामः २ कषायपरिणामः ३ लेश्यापरिणामः ४ योगपरि- दशविधो णामः ५ उपयोगपरिणामः ६ ज्ञानपरिणामः ७ दर्शनपरिणामः ८ चारित्रपरिणामः ९ वेदपरिणामः १० । तत्र गम्यते प्राप्यते जीवनैरयिकादिगतिनामकम्र्मोदयेनेति गतिः, नैरयिकत्त्व - तिर्यक्त्व-मनुजत्त्व - देवत्त्वपर्यायपरिणतिः, गतिरेव परिणामो गतिपरिणामः, जीवस्तं गत्यात्मकं परिणामं धर्मान्तरं भजते, यथा कश्चिन्मनुजो वर्तमानाऽवस्थायां मनुजगतिपर्यायपरिणतः, समाप्ते तु निजायुषि यदा देववेनोत्पन्नस्तदा मनुजपर्यायस्य विनाशः, देवपर्यायस्य चोत्पादः, आत्मद्रव्यस्य च धौव्यमिति स गतिपरिणामो जीवस्योच्यते । तथा इन्दति आवारककर्म्मणां क्षयेणाऽनन्तज्ञानदर्शनचारित्रवीर्यस्वरूपं परमैश्वर्यं प्राप्नोतीति इन्द्र आत्मा, तस्येदमिन्द्रियं प्राग्व्यावर्णितस्वरूपं, पञ्चविधमिन्द्रियं जीवेनाऽवाप्यते अत इन्द्रियपरिणामोऽपि जीवपरिणामः, यथैकेन्द्रियच्चपरिणाम भाक् कश्चिदेकेन्द्रियो निजाऽऽयुषस्समाप्तौ द्वीन्द्रियत्वेनोऽत्पन्नस्तदा एकेन्द्रियसंज्ञपरिणामस्य विनाशः, द्वीन्द्रियाख्यपर्यायस्योत्पत्तिरात्मनश्च ध्रुवता, एवमग्रेऽपि स्वमनीषिकयोह्यम् ।। कपन्ति हिंसन्ति परस्परं प्राणिनोऽस्मि - भिति कपः संसारस्तमयन्ते गमयन्ति प्रापयन्तीति कपाया वक्ष्यमाणस्वरूपाः, कषाय एव परिणामः कषायपरिणामः, तत्तत्कषायमोहनीयोदयवर्त्तिना जीवेन तत्तत्कषायोऽनुभूयत इति कषायोऽपि जीवपरिणामः, यथा क्रोधकषायोदयवर्त्ती मश्च अवस्थान्तरगमनपरिच्छिन्नः तच्चाऽत्र प्रत्यक्षमनुबोभूयते, अतस्तेषामपि धर्माऽधर्म्माऽऽकाशद्रव्याणामापेक्षिकं परिणामित्त्वं L निर्वाधमिति । अनया रीत्या घटाकाशः '' मठाकाश: ' इत्यादावपि विज्ञेयम् ॥ N G 節 ।। ४० ।। A S AST! U 骗 M A
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy