SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र० ॥ ३७ ॥ | नैवमित्यादिविभाषा पूर्ववत् । पुनरपि कपिलः प्रोवाच किं भवद्दर्शने सर्वथा धम्र्मो नास्त्येवेत्युक्ते मरीचिरचिन्तयत्, | प्रचुरकर्म्मा खल्वयं जिनोक्तमार्ग न प्रपद्यतेऽतो वरं मे मदुचितः सहायः संवृत्त इति विचिन्त्य सम्पूर्णः खलु साधु| मार्गे धर्म्मः किञ्चित्तु मम मार्गेऽपीत्यर्थाभिधायकं कपिला इत्थं पि इहयपि त्ति उत्सूत्रमिश्रितमेव वाक्यं मरीचिरवोचत् । तद्वचः श्रुत्वा च कपिलस्तदन्तिक एव प्रत्रजितः । मरीचिनाऽप्यनेन दुर्वचनेन कोटाकोटिसागरप्रमाणः संसारोऽभिनिर्वर्त्तितः, त्रिपद्यास्फोटकाले च नीचैर्गोत्रं बद्धमिति । ततोऽनालोचिततत्कर्मा चतुरशीतिलक्षपूर्वायुः | परिपाल्य मृत्वा चतुर्थे भवे ब्रह्मलोके दशसागरस्थितिः सुरः सञ्जातः । कपिलोऽपि ग्रन्थार्थपरिज्ञानशून्योऽप्यारिप्रभृत्यनेक शिष्यान् प्रत्राज्य तत्क्रियानिरतो मृत्वा ब्रह्मलोके देवः सञ्जातः, तत्र च मया प्राग्भवे किं कृतमित्यवधिं प्रयुज्य वतीर्थमोहादागत्य च पञ्चवर्णमण्डलावस्थोऽन्तर्हितः षष्ठितत्रादिकं कापिलेयशास्त्रं स्वशिष्यवर्गस्य पुरः कथितवान् । मरीचिस्तु ब्रह्मलोकाच्युतः पञ्चमे भवे कोलाकसन्निवेशेऽशीतिलक्षपूर्वायुः कौशिकनामा ब्राह्मणः स च द्रव्योपार्जनपरायणो विषयासक्तो हिंसादिषु निःशूको भूयांसं कालं गृहे स्थित्वा प्रान्ते च त्रिदण्डी भूत्वा मृत्वा च पद्मानन्दकाव्यानुसारेण षष्ठे भवे सौधर्मे सुरः तदपेक्षया च द्वाविंशतितमो मनुजभवो न गण्यत इति न भवाधिक्यशङ्काऽपि । श्रीवीरचरित्राद्यनुसारेण तु तिर्यगादिभवानुभूतिलक्षणे संसारे प्रभूतकालं परिभ्रम्य षष्ठे भवे स्थूणायां नगर्या द्वासप्ततिलक्षपूर्वायुः पुष्पनामा द्विजः प्रान्ते च त्रिदण्डी भूत्वा मृत्वा च सप्तमे भवे सौधर्म्मकल्पे मध्यस्थितिः सुरः ७, ततश्युतोऽष्टमे भवे चैत्यसन्निवेशे षष्टिलक्षपूर्वायुरग्निद्योतो नाम ब्राह्मणः प्रान्ते च त्रिदण्डी भूत्वा मृत्वा किरणाव० 113011
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy