________________
२० क०
कृत्य वन्दते स्तौति च 'भो मरीचे यावन्तो लाभास्ते त्वयैव लब्धाः, यतस्त्वं वीरनामा चरमस्तीर्थकृत् प्रियमित्रनामा चक्रवर्त्ती त्रिपृष्ठनामा प्रथमो वासुदेवश्च भविष्यसीत्यादि प्रागुक्तं प्रादुष्कृत्य 'न च ते पारित्रज्यं वंदे न चापि तवेदं जन्म किन्तु चरमस्तीर्थ कृद्भविष्यस्यतो वंदे' इत्यादि मधुराभिर्वाग्भिः स्तुत्वा नत्वा पुनः पितरमभिवन्द्य विनीतां नगरीं प्राप्तः । मरीचिरपि भरतवचनं श्रुत्वा हर्षोद्रेकात्रिपदीमास्फोट्य नृत्यं कुर्वन्निदमवोचत्। " जइ वासुदेवपढमो, मूआइविदेहचक्कवट्टित्तं । चरमो तित्थयराणं, होउ अलं इत्तिअं मज्झ ॥ १ ॥ अहयं च दसाराणं, पिआ मे चक्कवट्टिवंसस्स । अज्जो तित्थयराणं अहो कुलं उत्तमं मज्झ ॥ २ ॥” इति च जातिमदहेतुकं नीचैर्गोत्रं बद्धवान्, यदुक्तं - " जाति १ लाभ २ कुलै ३ वर्य ४ वल ५ रूप ६ तपः ७ श्रुतैः ८ । कुर्वन्मदं पुनस्तानि, हीनानि लभते जनः ॥ १ ॥” इति । तदनु मरीचिर्भगवति निर्वृते साधुभिः सह विहरन् प्राग्वत्साधुभ्यश्च शिष्यान् समर्पयति । एकदा च तं ग्लानीभूतं न कोऽपि साधुः प्रतिजागर्त्ति सोऽचिन्तयदहो एते बहुपरिचिता अपि मां न प्रतिजाग्रति । यदि वा कथमेते कृतकृत्याः स्वदेहेऽपि गतस्पृहाः संयमिनो मामीदृशमविरतं प्रतिजाग्रति, तस्माद्रोगवि मुक्तस्य ममैकं प्रतिजागरकं प्रत्राजयितुं युक्तमिति चिन्तापरस्य तस्यैकदा नीरोगतायां सञ्जातायां कपिलनामा राजपुत्रो धर्मशुश्रूषया तदन्तिके समागतो निजदेशनया प्रतिबुद्धस्तेन प्रेरितो भो कपिल ! याहि साधुसमीपे प्रपद्यख च त्रैलोक्यालङ्कारं त्रैलोक्याध्यपदैकहेतुं मुनिमार्गमित्युक्ते कर्मोदयान्मुनिमार्गानभिमुखः कपिलः प्रोवाच, यद्येवं किमिति भवद्भिस्तत्परित्यागेनैतत्पारित्रज्यं स्वीकृतं ? मरीचिरुवाच, पापोऽहं श्रमणास्त्रिदण्डविरता अहं तु