________________
वा कम्मस्सेत्यादि, नाम्नो नामकर्मणो गोत्रकर्म्मणो वा अथवा नाम्ना संज्ञया गोत्रस्य - नीचैर्गोत्रस्याक्षीणस्य स्थितेरक्षयात् अवेदितस्य- तद्रसस्याननुभूतत्वात् अनिजीर्णस्य - तत्प्रदेशानां जीवप्रदेशेभ्योऽपरिशाटनात् तस्योदयेन । भगवता नीचैर्गोत्रं भरतसुतमरीचिजन्मनि स्थूलसप्तविंशतिभवापेक्षया तृतीयभवे निबद्धं तथाहि - पश्चिममहाविदेहे नयसारनामा ग्रामाधिपतिरेकदा स्वाम्यादेशादारुनिमित्तं सपाथेयोऽटव्यां गतः, तत्र च भोजनावसरे भृतकैरुपनीतायां रसवत्यां यदि कश्चिदतिथिर्मिलति तदा शोभनमितिबुद्धया इतस्ततो विलोकयन् सार्थभ्रष्टान् क्षुत्तृड्वाधिततनून् साधून् दृष्ट्वा हृष्टोऽहो मे भाग्यमिति रोमाञ्चिततनुः सादरं साधूनाहूय विपुलया रसवत्या प्रत्यलाभयत् भोजनादिना च कृतकृत्यीभूय साधुसमीपे गत्वा नत्वा चोवाच, चलन्तु भगवन्तो दर्शयामि मार्ग, तदनु तेन सह चलद्भिः साधुभिर्योग्योऽयमित्यवधार्याध्वन्येव वृक्षाध उपविश्य धर्मदेशनया सम्यक्त्वं प्रापितः । स चात्मानं धन्यं मन्यमानः साधून्नत्वा स्वग्रामं प्राप्तः । प्रान्ते च पञ्चनमस्कृतिस्मृतिपुरस्सरं मृत्वा द्वितीयभवे सौधर्मे कल्पे पल्योपमायुः सुरः । ततश्च्युतस्तृतीयभवे मरीचिनामा भरतसुतोऽभूत् । स चैकदा सबहुमानं देवेन्द्रादिविधीयमानं प्रथमजिनमहिमानं दृष्ट्वा श्रुत्वा च धर्म्म सम्यक्त्वलब्धबुद्धिः प्रव्रजितः, ततः स स्थविरान्तिकेऽधीतैकादशाङ्गीकोऽन्यदा ग्रीष्मकालेऽखानादिना पीडितवपुः संयममार्गादुद्विग्नमना गृहे मे गन्तुमनुचितं श्रामण्यगुणानपि मेरुगिरिसमभारान् वोढुमहमशक्त इति चिन्तापरः खकीयखरूपं प्रकटयन्नेवैतत्कुलिङ्गं चिन्तयति । तद्यथा - श्रमणास्त्रिदण्डविरता, अहं तु नैवमतो मे त्रिदण्डिकं त्रिदण्डचिन्हमस्तु, तथा श्रमणा लोचेन्द्रियाभ्यां द्रव्यभावाभ्यां मुण्डा नाहमेवमतो मे क्षुर