________________
पाण्डवैः सह द्वियोजनलक्षप्रमाणजलनिधिमतिक्रम्य पनराज रणविमर्देन विजिस्य द्रौपदीमानीतवान् । तत्र च कपिलनामा वासुदेवो मुनिसुव्रताभिधानतत्रत्यजिनात् कृष्णवासुदेवागमनवार्तामुपलभ्य सबहुमानं कृष्णदर्शनार्थमागतः, कृष्णश्च तदा समुद्रमुल्लङ्घयति स्म, ततस्तेन शङ्खः पूरितः, कृष्णेनापि तथैव, ततः परस्परं शङ्खशब्दश्रवणमजायतेति ५ । तथा भगवतो महावीरस्य वन्दनार्थमवतरणमाकाशात्समवसरणभूम्यां चन्द्रसूर्ययोः शाश्वतविमानोपेतयोवेंभूवेदमप्याश्चर्यमेवेति ६ । तथा हरेः-पुरुषविशेषस्य वंशः-पुत्रपौत्रादिपरम्परा हरिवंशस्तलक्षणं यत्कुलं तस्योत्पत्तिः । कुलं बनेकधाऽतो हरिवंशेन विशिष्यते एतदप्याश्चर्यमेवेति । श्रूयते हि भरतक्षेत्रापेक्षया यत्तृतीयं हरिवर्षाख्यं मिथुनकक्षेत्रं ततः केनापि पूर्वविरोधिना व्यन्तरामरेण मिथुनकमेकं भरतक्षेत्रे क्षिसं, तच पुण्यानुभावाद्राज्यं प्रासं, ततो हरिवर्पजात् हरिनाम्नः पुरुषाद्यो वंशः स तथेति ७ । तथा चमरस्य-असुरकुमारराजस्योत्पातः-ऊर्द्धगमनं चमरोत्पातः, सोऽप्याकस्मिकत्वादाश्चर्यमिति । श्रूयते हि चमरचञ्चाराजधानीनिवासी चमरेन्द्रोऽभिनवोत्पन्नः सन् ऊ मवधिनाऽऽलोकयामास, ततः खशीर्षोपरि सौधर्मव्यवस्थितं शक्रं ददर्श, ततो मत्सराध्मातः शक्रतिरस्काराहितमतिरिहागत्य भगवन्तं महावीरं छद्मस्थावस्थायामेकरात्रिकी प्रतिमा प्रतिपन्नं सुसुमारनगरोद्यानवतिनं सबहुमानं प्रणम्य भगवंस्त्वत्पादपङ्कजवनं मे शरणमरिपराजितस्येति विकल्प्य विरचितघोररूपो लक्षयोजनमानशरीरः परिघरत्नप्रहरणं परितो भ्रमयन् गर्जनास्फोटयन् देवांस्त्रासयन्नत्पपात, सौधावतंसकविमानवेदिकायां पादन्यासं कृत्वा शकं चाक्रोशयामास । शक्रोऽपि कोपाजाज्वल्यमानस्फारस्फुलिङ्गशतसमाकुलं कुलिशं तं प्रति मुमोच । स च भ