SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ किरणाव० कल्पसूत्र ॥३४॥ बहुश्रुतीकृतस्तदेवं मावोचः" । एवं भगवतः समभावतया यथावब्रुवाणस्य तपस्तेजोऽसौ कोपान्निससज, उच्चावचा-1 क्रोशैश्चाक्रोशयामास । तत्तेजश्च भगवत्यप्रभवत्तं प्रदक्षिणीकृत्य गोशालकशरीरमेवानुतापयदनुप्रविवेश, तेन च दग्धशरीरोऽसौ दर्शितानेकविक्रियः सप्समरात्रौ कालमकार्षीदिति १ । तथा गर्भस्य-उदरसत्त्वस्य हरणं-उदरान्तरसश्रामणं गर्भहरणमेतदपि तीर्थकरापेक्षयाऽभूतपूर्व सद् भगवतो महावीरस्य जातमित्यनन्तकालभावित्वादाश्चर्यमेवेति २। तथा स्त्री-योपित्तस्यास्तीर्थकरत्वेनोत्पन्नायास्तीर्थ-द्वादशाङ्गं सङ्घो वा स्त्रीतीर्थ, तीर्थ हि पुरुषसिंहाः पुरुषवरगन्धहस्तिनत्रिभुवनेऽप्यव्याहतप्रभुभावाः प्रवर्तयन्ति । इह त्ववसर्पिण्यां मिथिलानगरीपतेः कुम्भकमहाराजस्य दुहिता मल्लयभिधाना एकोनविंशतितमतीर्थकरस्थानोत्पन्ना तीर्थ प्रवर्तितवतीत्यनन्तकालजातत्वादस्य भावस्याश्चर्यतेति ३ । 'अभाविआ परिस त्ति' अभव्या-अयोग्या चारित्रधर्मस्य पर्षत्-तीर्थकरसमवसरणश्रोतृलोकः । श्रूयते हि भगवतो बर्द्धमानस्य जम्भिकग्रामावहिरुत्पन्नकेवलस्य तदनन्तरमिलितचतुर्विधदेवनिकायविरचितसमवसरणस्य भ|क्तिकुतूहलाकृष्टसमायातानेकनरामरविशिष्टतिरश्चां खस्खभाषानुसारिणाऽतिमनोहारिणा महाध्वनिना कल्पपरिपालनयेव धर्मकथा बभूव, यतो न केनापि तत्र विरतिः प्रतिपन्ना, न चैतदपि कस्यापि तीर्थकृतो भूतपूर्वमितीदमाश्चर्यमिति ४ तथा कृष्णस्य नवमवासुदेवस्य अपरकङ्का राजधानी गतिविषया जाताऽप्यजातपूर्ववादाश्चर्यम् । श्रूयते हि पाण्डवभार्या द्रौपदी धातकीखण्डभरतक्षेत्रापरकङ्काराजधानीनिवासिपद्मराजेन देवसामर्थेनापहृता । द्वारवतीवास्तव्यश्च कृष्णवासुदेवो नारदादुपलब्धतव्यतिकरः समाराधितसुस्थिताभिधानलवणसमुद्राधिपतिदेवः पञ्चभिः ६४ स
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy