SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ LAN यावत्पिपासमापीतवन्तस्तेन पयसा पयःपात्राणि च परिपूरयामासुः । ततोऽपायसम्भाविना वृद्धेन निवार्यमाणा अप्यतिलोभाद् द्वितीयतृतीयशिखरे बिभिदुस्तयोश्च क्रमेण सुवर्ण रत्नानि च समासादयामासुः । पुनस्तथैव चतुर्थ भिन्दाना अतिघोरविषमतिकायमञ्जनपुञ्जतेजसमतिचञ्चलजिह्वायुगलमनाकलनीयकोपप्रसरमहीश्वरं सङ्घट्टितवन्तः, ततोऽसौ कोपाद्वल्मीकशिखरमारुह्य मार्तण्डमण्डलमवलोक्य निर्निमेषया दृष्ट्या समन्तादवलोकयंस्तान् भस्मसाच्चकार । तन्निवारकवृद्धवाणिजकं तु न्यायदर्शीत्यनुकम्पया वनदेवता खस्थानं सजहारेति । एवं त्वदीयधर्माचार्यमात्मी-13 यसम्पदाऽपरितुष्टमस्मदवर्णवादविधायिनमहं खकीयेन तपसाऽद्यैव भस्मसात्करिष्यामीत्येष प्रचलितोऽहं त्वं तु तस्येममर्थमावेदय, भवन्तं च वृद्धवणिजमिव न्यायदर्शित्वादक्षिष्यामि"। इति श्रुत्वाऽसावानन्दमुनिर्भीतो भगवदन्तिकमामुपागत्य तं सर्वमावेदयत् । भगवताऽप्यसावभिहितः- एप आगच्छति गोशालकस्ततः साधवः शीघ्रमितोऽपसरन्तु प्रेरणां च तस्मै कश्चिदपि मादादिति गौतमादीनां निवेदयेति"। ततस्तैस्तथैव कृते गोशालक आगत्य भगवन्तं प्रत्यभिदधौ-'शोभनमायुष्मन् ! काश्यप ! मामेवं वदसि गोशालको मङ्खलिपुत्रोऽयमित्यादि, योऽसौ गोशालकस्तवान्तेवासी स देवभूयं गतः, अहं त्वन्य एव तच्छरीरकं परीपहसहनसमर्थमास्थाय वः' इत्यादिकं कल्पितं वस्तूग्राहयन् तत्प्रेरणाप्रवृत्तयोर्द्वयोः साध्वोः सर्वानुभूतिसुनक्षत्रनाम्नोस्तेन तेजसा दग्धयोर्भगवताऽभिहितो-'हे गोशालक ! कश्चिचौरो ग्रामेयकैः प्रारभ्यमाणस्तथाविधदुर्गमलभमानोऽल्या तृणेन वात्मानमावृण्वन्नावृतः किं भवति? अनावृत एवासी, एवं त्वमप्यन्यथा जल्पनेनात्मानमाच्छादयन् किमाच्छादितो भवसि ? स एव त्वं गोशालको यो मया A
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy