________________
कल्पसूत्र०
॥३३॥
४ स्थावस्थायां भूयांसोऽग्रे वक्ष्यमाणलक्षणा बभूवुः । केवल्यवस्थायामपि नमन्निखिलनरनाकिनिकायनायकस्यापि जघन्य-12 किरणाव० तोऽपि कोटिसङ्ख्यभक्तिभरनिर्भरामरषट्पदपटलजुष्टपदपद्मस्थापि विविधर्द्धिलब्धिमद्वरविनेयसहस्रपरिवृतस्यापि स्वभावप्रशमितयोजनशतमध्यगतवैरमारिविड्वरदुर्भिक्षाधुपद्रवस्याप्यनुत्तरपुण्यसंभारस्यापि मनुष्यमात्रेणापि चिरपरिचितेनापि शिष्याभासेनापि गोशालकेन कृत उपसर्गः । इदं च किल न कदाचिद् भूतपूर्व, तीर्थङ्करा हि अनुत्तरपुण्यसम्भारतया नोपसर्गभाजनमपि तु सकलनरामरतिरश्चां सत्कारादिस्थानमेवेत्यनन्तकालभाव्ययमों लोकेऽद्भुतभूत इति । तत्र केवल्यवस्थायां गोशालककृतोपसर्गो यथा-एकदा श्रीमहावीरः श्रावस्त्यां विहरति स्म गोशालकश्च, तत्र च गौतमस्वामी गोचरगतो बहुजनशब्दमश्रीषीद्यथा श्रावस्त्यां द्वौ जिनौ सर्वज्ञौ महावीरो गोशालकश्च, ततो भगवदन्तिकमागत्य गौतमो गोशालकोत्थानं पृष्टवान् । भगवांश्चोवाच यथा-'अयं मङ्खलिनानो मङ्खस्य सुभद्राभिधानाया भार्यायाः पुत्रः शरवणग्रामे गोबहुलब्राह्मणगोशालायां सजातः । षड्वर्षाणि च छद्मस्थेन मया सार्द्ध विहृतोऽस्मत्त एव बहुश्रुतीभूत इति नायं जिनो नापि सर्वज्ञः।' इदं च भगवद्वचनमाकर्ण्य बहुजनो नगर्यास्त्रिकचतुष्कादिषु परस्परं कथयामास-'गोशालको मङ्खलिपुत्रो न जिनो नापि सर्वज्ञः' इतिलोकोक्तिमाकर्ण्य गोशालकः कुपितः सन्नानअन्दाभिधानं भगवदन्तेवासिनं गोचरगतमपश्यत्तमवादीच-“भो ! आनन्द ! एहि, तावदेकमौपम्यं निशामय, यथा-18 ॥३३॥ |किल केचन वणिजोऑर्थिनो विविधपण्यभृतशकटा देशान्तरं गच्छन्तो महाटवीं प्रविष्टाः पिपासितास्तत्र जलं गवेषयन्तश्चत्वारि वल्मीकशिखराणि शाहलवृक्षकक्षान्तरद्राक्षुः । क्षिप्रं चैकं विचिक्षिपुस्ततो विपुलजलमवापुः, ततो