SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ साधनन्तत्वात् अक्षतं वा परिपूर्णत्वात् , अव्यावाधं परेषां पीडाकारित्वाभावात् , अपुनरावृत्ति पुनर्भवेऽनवतारात्, | सिद्धिः-लोकान्तक्षेत्ररूपा सा चासौ गतिश्च सैव नामधेयमभिधा यस्य ईदृशं स्थानं व्यवहारतः सिद्धिक्षेत्र, निश्चयतो यथावस्थितमात्मखरूपं सम्यग् अशेषकर्मविच्युतेः प्राप्ताः संप्राप्तास्तेभ्यः । जीवखरूपविशेषणान्यपीमानि उपचाराल्लोकाग्रे ज्ञेयानि । आद्यन्तकृतो नमस्कारो मध्यव्यापीत्यतोऽन्ते नमो जिनेभ्य इत्युक्तमिति । जितभयेभ्यःक्षपितभयेभ्यः, न चात्र पौनरुक्त्यम् , यतः-"सज्झायझाणतवओ-सहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु अ, न इंति पुणरुत्तदोसाओ ॥१॥" त्ति, अनेन जिनजन्मादिषु शक्रः स्तोतीति शक्रस्तव इत्यभिधीयत इति । एवं सोन् भावाहंतः स्तुत्वा पुनरधिकृतं वीरं स्तौति । 'नमोत्थु णं समणस्सेत्यादिना जाव संपाविउकामस्स त्ति' यावत्करणात् 'सयंसंबुद्धस्स' इत्यादि सिद्धिगइनामधेअं ठाणमित्यन्तं दृश्यम् । यद्यपि भगवतः सर्वत्र निःस्पृहत्वात् । सिद्धिगतौ कामो नास्ति, तथापि तदनुरूपचेष्टनात् सम्प्राप्सुकाम इव तस्याप्राप्तस्येत्यर्थः । तत्र-ब्राह्मणकुण्डग्रामे देवानन्दाकुक्षौ स्थितं इह-सौधर्मदेवलोकस्थितोऽहं यतः पश्यति मां भगवान् तत्र गत इह गतं ज्ञानेनेति शेष इति कृत्वा इति हेतोः 'पास' इति पाठे पश्यतु मामिति, पुरत्थेत्यादि, पूर्वाभिमुखो निषण्ण-उपविष्टः अयमेतद्रूपः सङ्कल्पः समुदपद्यत,आत्मन्यधि अध्यात्म तत्र भव आध्यात्मिक आत्मविषय इत्यर्थः,चिन्ता सजाताऽस्मिन्निति चिन्तितः चिन्ता|त्मको, न ध्यानात्मकः,प्रार्थनं प्रार्थः स सजातोऽस्मिन्निति प्रार्थितोऽभिलाषात्मकः मनोगतो वाचान प्रकाशितः ॥१६॥ न खलु एवं भूअं, न एअं भव्वं, न एवं भविस्सं, जन्नं अरहंता वा चक्कवट्टी वा बलदेवा
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy