________________
कल्पसूत्र०
किरणावा
॥३१॥
गतिः। प्रतिष्ठन्त्यस्यामिति प्रतिष्ठा संसारगर्तपतत्प्राणिगणस्याधार इति । 'अप्रतिहतवरज्ञानदर्शनधरेभ्यः' अप्रतिजाहते कटकुट्यादिभिर्वरे-क्षायिके ज्ञानदर्शने-विशेषसामान्यावबोधरूपे धरन्तीति तेभ्यः। ईदृशं ज्ञानदर्शनधारित्वमा
वरणाभावात् सम्पद्यत इत्याह-व्यावृत्तछद्मभ्यः' व्यावृत्तं छद्म-घातिकाणि संसारो वा येभ्य इति तेभ्यः । तदभावस्तु रागादिजयादित्याह-जिनेभ्यो' रागादिजेतृभ्यो, रागादिजयश्च तजयोपायज्ञानपूर्वक एवेत्यत आह'ज्ञायकेभ्यः' जानन्तीति ज्ञायकास्तेभ्यो, यद्वाऽन्यभव्यसत्त्वै रागादीन् सदुपदेशदानादिना जापयन्तीति जापकास्तेभ्यः । अत एव 'तीर्णेभ्यो' भवार्णवं ज्ञानादिपोतेन । 'तारकेभ्यो' अन्यानप्युपदेशवर्तिनः । अज्ञाननिद्राप्रसुप्ते जगति खसंविदितज्ञानेन जीवादितत्त्वं बुध्यन्ते स्मेति बुद्धास्तेभ्यः। अन्यानपि बोधयन्तीति बोधकास्तेभ्यः। बाबाभ्यन्तरपरिग्रहबन्धनात् कर्मबन्धनाद्वा मुक्ता इति तेभ्यः, अन्यानपि तव्यान्मोचयितृभ्यः । एतानि विशेषणानि भवावस्थामाश्रित्योक्तानि, अथ सिध्धा )वस्थामाश्रित्योच्यते, सर्वज्ञेभ्यः-जीवखाभाव्यात् सर्व वस्तुजातं प्रधानविशेष गौणीकृतसामान्यं च केवलज्ञानेन जानन्तीति सर्वज्ञास्तेभ्यः । सामान्यप्रधानं गौणीकृतविशेषं च सर्व केवलदर्शनेन पश्यन्तीति सर्वदर्शिनस्तेभ्यः। प्रथमं सर्वज्ञेभ्य इति विशेषणं च केवलिनामाद्यसमये ज्ञानं द्वितीये (च) दर्शनमिति सूचनार्थे, उभयमपि च वस्तु विषयीकुर्वद्वस्तुनिरपेक्षमेव केवलिना, छद्मस्थानां तु उभय सापेक्षं निरपेक्ष च, क्रमोऽपि प्रथमं दर्शनं पश्चाद् ज्ञानमिति प्रसङ्गाद् बोध्यमिति । सिवमयलमित्यादि, शिवं-निरुपद्रवं, अचलं खाभाविकप्रायोगिकचलनाभावात् , अरुजमाधिव्याध्यभावात् , अनन्तमनन्तार्थविषयकज्ञानमयत्वात् , अक्षयं-अनाशं