________________
N
कल्पसूत्र०
॥३०॥
SACASEASON
ध्यात्वोद्गते सूरे प्रभोरन्तिकमागत्य प्रभुं प्रणतः, प्रभुगाच प्रथमत एवामृततिरस्कारिण्या वाण्या वादितः-“हे वत्स! किरणावर निर्मच्छदागच्छत्साधुभिर्घट्टितोऽपि किं दुर्ध्यातवान् ?, यतः- "को चक्कयतिरिद्धिं, चइडं दासत्तणं समभिलसइ । को बररयणाई मोतुं, परिगिण्हइ उवलखण्डाई॥१॥ नेरइयाण वि दुक्खं, शिजइ कालेण किं पुष नराणं । ता न चिरं तुह होही, दुक्खमिणं मा समुधियसु ॥२॥ जी जलबिंदुसमं, संपत्तीओ लरंमलोलाओ । सुविणयसम च पेम, जं जाणसुतं करिजासु ॥ ३॥ वरमग्गिमि पवेसो, वरं विसुद्धेण कम्मुणा मरणं । मा महिअचयभंगो, मा ४ जीअं खलिअसीलस्स ॥४॥” इत्यादिकमुपदिश्य भगवानेव प्राग्भवौ स्मारयति हे मेघ! तावकीनावेव प्राग्भवौ श्रवणगोचरीकुरु । यत्त्वं साम्प्रतीनादितो भवात्तृतीयभवे वैताब्यभूमौ श्वेतः पदरदः सहस्रहस्तिनीशः सुमेरुप्रभनामा हस्त्यमूः । अन्यदा च ग्रीष्मे दवाभीतः हस्तिनीजवाद्विहाय तृषितो धावमानः पङ्किलमेकं सरः प्राविशस्तत्र चाप्राप्तपयाः पक्क एव निमग्नः, प्रत्यर्थिदन्तिना दन्ताभ्यां विद्धो महाव्यथां सहमानः सप्त दिनान्यस्थाः, एवं विंशत्युत्तरशतमायुः परिपाल्य मृत्वा च विन्ध्यभूमौ सप्तहस्तिनीशतनायको रक्तश्चतुर्दन्तो दन्ती समुत्पेदिवान् । एकदा च तथैव दवं वीक्ष्य जातजातिस्मृतिवर्षारात्रादिमध्यान्ते सपरिवारः समूलं वलयाधुन्मूल्य योजनमानं स्थण्डिलं निर्मितवान् । अन्यदा दवादीतः सन् प्रागुक्ते सत्त्वसङ्कले स्थण्डिले गत्वा सत्त्वरं प्रविष्टः संलीनाङ्गः स्थितोऽपि गात्रकण्डूयने
॥३०॥ च्छया पादमेकमुत्क्षिप्तवान् , तत्र भूम्यामन्यत्रानवाप्तावकाशः शशकः प्राविशत् । वपुः कण्डूयित्वा पादमधो मुञ्चन्: शशकमालोक्य तदनुकम्पया सशङ्कः सार्द्धदिनद्वयं तदवस्थ एव स्थितवान् । शान्ते च दवे प्रचलिते च शशके गिरेः।
AGAKARSARKAGAKAR