SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ यन्त इति शरणदयास्तेभ्यः । यथा हि लोके चक्षुरादिदानादुःस्थानां जीवितद इत्यभिधीयते तथैतेऽपीत्याह - 'जीव - दयेभ्यः जीवनं जीवो-भावप्राणधारणममरणं तं दयन्ते इति, यद्वा जीवेषु दया येषामिति जीवदयास्तेभ्यः । क्वचित् 'बोहिदयाणं' इति पाठस्तत्र बोधिः – तत्त्वार्थरुचिरूपा जिनोक्तधर्म्मावाप्तिस्तां दयन्त इति । अनन्तरोक्तं विशेषणकदम्बकं च भगवतां धर्मात्मकतया सम्पन्नमित्येतदेवाह – 'धर्म्मदयेभ्यः' धम्र्म्म-देशसर्वचारित्ररूपं दयन्ते इति धर्म्मदयास्तेभ्यः । यथा च धर्म्मदयत्वं तथाऽऽह —- 'धर्मदेशकेभ्यः' धर्म्म- पूर्वोक्तप्रकारं यथाभव्यमवन्ध्यदेशनातो | देशयन्तीति धर्मदेशकास्तेभ्यः । धर्म्मदेशकत्वं चैतेषां धर्म्मस्वामित्वे सति न पुनर्नटवदिति दर्शयन्नाह – 'धर्म्मना - यकेभ्यः' धर्म्मस्य - क्षायिकज्ञानादेस्तद्वशीकारात्तत्फलप्रकर्षपरिभोगाच्च नायकास्तेभ्यः । 'धर्म्मसारथिभ्यो' धर्मरथस्य सारथय इव यथा च किल सारथी रथं रथिकमश्रांश्च सम्यक् प्रवर्त्तयति रक्षति च एवं भगवन्तोऽपि संयमात्मप्रवचनाख्यानां चारित्रधर्म्माङ्गानां रक्षोपदेशदानादिना धर्म्मसारथयः स्युः, धर्म्मसारथिकतायां सम्प्रदायस्त्वेवम् - एकदा श्रीमहावीरप्रभुः पृथिव्यां विहरन् राजगृहपुराद्वहिरुद्याने समवसृतः । तत्र च श्रेणिकधारिण्योर्मेघकुमारनामा नन्दनश्चन्दनप्रतिमया प्रभोगिरा संसाराद्विरक्तोऽष्टौ प्रियाः परित्यज्य प्रत्रजितः । प्रभुणा च ग्रहणासेवनादि - शिक्षार्थ स्थविराणामर्पितस्तत्र च निर्गच्छदागच्छदनेकवाचंयमचरणप्रमार्जनरेणुगुण्डितगात्रस्तस्यां रजन्यां क्षणमा - त्रमपि निद्रामप्राप्नुवन्, “क मे सुखावासे कुसुमशय्याशयनं ? क्व चास्यां दुःखावासवसतौ भूत्रस्तरे लुठनं ?” इति वैसदृश्येनोपमयन् “इत्थं कदर्थनां सोढुमशक्तोऽहमिति प्रातः प्रभुमापृच्छय पुनरपि गृहिभावमा श्रयिष्ये, ” इति
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy