SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र० किरणाप ॥२९॥ 'लोकप्रदीपेभ्यः' लोकस्य-देशनायोग्यविशिष्टतिर्यनरामररूपस्योपदेशप्रभामिर्मिथ्यात्वध्वान्तविध्वंसनेन पदार्थसार्थप्रकृष्टप्रकाशकत्वात् प्रदीपा इव प्रदीपा इति तेभ्यः । 'लोकप्रद्योतकरेभ्यः' लोकस्य-लोकालोकरूपस्य समस्तवस्त्वात्मकस्य केवलालोकपूर्वकप्रवचनमरीचिमण्डलप्रवर्त्तनेन प्रद्योतं-प्रकाशं कुर्वन्तीत्येवंशीला, यद्वा लोकस्य-उत्कृष्टमतेगणधरादिभव्यसत्त्वस्य प्रद्योतं-विशिष्टज्ञानशक्तिं तत्क्षणद्वादशाङ्गीविरचनानुमेयां कुर्वन्तीति लोकप्रद्योतकरास्तेभ्यः । अनयोश्च पूर्वोक्तयोयोर्विशेषणयोर्द्रष्टदृश्यलोककृतो भेद इति । 'अभयदयेभ्यः' सप्तभयहरणादभयं दयन्ते इत्यभयदाः सप्त भयस्थानानि त्विमानि-"इह १ परलोका २ दाण ३ मकम्हा ४ आजीवि ५ मरण ६ मसिलोगा । सत्तभयट्ठाणाई, जिणेहिं सिद्धंतभणिआई ॥१॥" अथवा प्राणान्तिकोपसर्गकारिष्वपि न भयं दयंतेऽथवाऽभयासर्वप्राणिभयत्यागवती दया-कृपा येषां ते तथा तेभ्यः । अथ च यथाऽनर्थत्यागकारिणोऽमी तथाऽर्थप्रापका अपीत्याह-'चक्षुर्दयेभ्यः' चक्षुरिव चक्षुः-शुभाशुभार्थविभागोपदर्शकत्वात् श्रुतज्ञानं तहयन्त इति चक्षुर्दयास्तेभ्यः। यथा हि किल लोके कान्तारगतानां चौरैश्चक्षुर्बध्ध्वा विलुप्तधनानां जनानां कश्चित् चक्षुर्दत्त्वेप्सितमार्गप्रदर्शनेनोप|कारी स्यादेवमेतेऽपि भगवन्तः संसारकान्तारान्तर्गतानां कुवासनया सद्ज्ञानचक्षुराच्छाद्य रागादिचौरविलुप्तधर्म|धनानां श्रुतचक्षुर्दत्त्वा निर्वाणमार्ग प्रापयन्त उपकारिणो भवेयुरिति दर्शयन्नाह-मार्गदयेभ्यः' मार्ग-सम्यग्दर्शनादिकं मुक्तिपथं दयंते इति मार्गदयास्तेभ्यः । अथ यथा चक्षुरुद्घाख्य दर्शयित्वा च मार्ग तानिरुपद्रवमास्पदं प्रापयन् परमोपकारी स्यादेवमेतेऽपीत्याह-'शरणदयेभ्यः' शरणं-त्राणं नानाविधोपद्रवोपद्रुतानां रक्षास्पदं निर्वाणरूपं तह ॥२९॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy