________________
शब्दापेक्षया खखतीर्थेष्वादिकरणात् । 'तीर्थकरेभ्यः' तीव-सङ्घ आद्यगणधरो वा तत्करणात् । खयं सम्बुद्धेभ्यः' खयमेव-परोपदेशं विनैव सम्यक् तत्त्वावबोधात् । कुत एवं यतः 'पुरुषोत्तमेभ्यः' भगवन्तः संसारेऽपि वसन्तः सन्तः सदा परार्थकृतो गौणीभूतखार्था उचितक्रियोपेता अदैन्याः कृतज्ञा देवगुरुमहामानिनो गम्भीराशया इत्यादि गुअगणान्वितत्वात् । उत्तमत्वमेवोपमात्रयेणाह-'पुरुषसिंहेभ्यः' पुरुषाः सन्तः सिंहा इच कम्मारिष्यतिकूरत्वात् परीपहेषु सावज्ञत्वात् उपसर्गेभ्यो निर्भयत्वाच पुरुषसिंहास्तेभ्यः । 'पुरुषवरपुण्डरीकेभ्यः' पुण्डरीकाणि च-धवलकमलानि बराणि च तानि पुण्डरीकाणि च वरपुण्डरीकाणि पुरुषवरपुण्डरीकाणीव पुरुषवरपुण्डरीकाणि तेभ्यो, धवलकमलसरशाश्च भगवन्तः कर्मपङ्के सम्भूता अपि दिव्यभोगजलेन वर्द्धितास्त्यक्त्वा चोभयं जगलक्ष्मीनिवासास्तिर्यमरामरसेव्याश्च पुण्डरीकवर्तन्ते, धवलता चामीषां सदाऽशुभमलरहितत्वादिति । एवं 'पुरुषवरगन्धहस्तिभ्यः' | इति-मारि-दुर्भिक्ष-परचक्रादिक्षुद्रगजानां भगवतिहारपवनगन्धादेव भङ्गात् , न चामी पुरुषाणामेवोत्तमाः, किन्तु
सकलजीवलोकस्यापीत्यत आह–'लोकोचमेभ्यो' लोकस्य-भव्यसङ्घातस्योत्तमाचतुस्त्रिंशदतिशयोपेतत्वात् , लोकोत्तमलात्वमेवाह-'लोकनाथेभ्यः' लोकस्स-भव्यलोकस नाथा-योगक्षेमकारिणस्तत्राप्राप्तस्य सम्यग्दर्शनादेर्लम्भकत्वाधोग
कारित्वं, तखैव च प्राप्तस्य तत्चदुपद्रवाभावापादनेन पालकत्वात् क्षेमकारित्वमिति तेभ्यः । तात्त्विकं च नाथत्वं
कथमिसाह-'लोकहितेभ्यः' लोकस्य-एकेन्द्रियादिप्राणिगणस्य पञ्चास्तिकायात्मकख वा तद्रक्षणप्रकर्षापदेशेन दिसम्यक्प्ररूपणतश्च हिता-अनुकूलवृत्तयस्वेभ्यः। नाथत्वं हितत्वं च भव्यानां यथावखितवस्तुप्रदीपनेन खादित्याह