________________
किरणाव
कल्पसूत्र०
॥२८॥
इह गए, पासइ मे भगवं तत्थ गए इह गयं तिकट्ठ समणं भगवंमहावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता सीहासणवरंसि पुरत्थाभिमुहे निसण्णे, तए णं तस्स सक्कस्स देविंदस्स देवरन्नो अयमआरूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पजित्था ॥ १६॥ व्याख्या-नमुत्थु णमित्यादितः समुप्पजित्थेति यावत्तत्र नमोऽस्त्विति सर्वत्र सम्बध्यते, सर्वत्र णमिति वाक्यालङ्कारे चतुर्थ्यर्थे षष्ठी च प्राकृतत्वात् , ततोऽर्हन्ति शक्रादिकृता पूजामित्यर्हन्तस्तेभ्यो नम इति, बहुवचनमद्वैतोच्छेदेन . बहुत्वख्यापनार्थम् , तथा कारिहननात् 'अरिहंताणं'१ रुह जन्मनि'इति धातोः कर्मबीजाभावेन भवेऽप्ररोहणादरुहंताणमिति पाठत्रयम् । अथ नामादिचतुर्विधानप्यर्हतः सामान्यतो नमस्कृत्य, विशेषतो भावार्हतः पृथग् नमस्कर्तुमाह-भगवंताणमिति, “भगोऽर्क १ ज्ञान २ माहात्म्य ३ यशो ४ वैराग्य ५ मुक्तिषु ६ । रूप ७ वीर्य ८ प्रयत्ने ९ च्छा १० श्री ११ धम्मै १२ श्चर्य १३ योनिषु ॥१॥” इत्यर्कयोनिवर्जद्वादशार्थभगयुक्तेभ्यः, तत्र यशखी| शाश्वतवैरिणामहिमयूरादीनां वैरोपशमनात्, वैराग्यवान् “यदा मरुन्नरेन्द्रश्रीस्त्वया नाथोपभुज्यते । यत्र तत्र रतिर्नाम, विरक्तत्वं तदापि ते ॥१॥” इत्युक्तेः २ वीर्यवानपरिमितबलवत्त्वात् ३ प्रयत्नः-तपःकादावुत्साहः ४ इच्छाभावाजन्तूनामुद्दिधीर्षा ५ श्रीश्चतुस्त्रिंशदतिशयरूपा ६ ऐश्वर्यमनेकेन्द्रादिदेवकोटिसेव्यत्वं ७ ज्ञान ८ माहात्म्य ९ | मुक्ति १० रूप ११ धर्म १२ वत्त्वं च प्रतीतमेव आइगराणमित्यादि आदिकरेभ्यः श्रुतधर्मस्वार्थापेक्षया नित्यत्वेऽपि