________________
5545513455655
सहस्राक्षः पञ्चमत्रिशताक्षणामिन्द्रकार्यप्रवृत्तत्वात् , मघा-महामेघा देव विशेषा वा वशे सन्त्यस स मघवा, पाकाबलवन्तो वैरिणस्तान् पाको वा-दानवविशेषस्तं शास्तीति पाकशासनः, दक्षिणा लोकस्याधिपतिर्मरोदक्षिणतः स-18 वस्थापि तदधीनत्वात् , ऐरावणो-गजरूपः सुरविशेषो वाहनं यस्य, सुराणामिन्द्र-आहादकः अथवा शोभना रादीप्तिर्येषां ते सुरास्तेष्विन्द्रः-श्रेष्ठः, 'सयसहस्स त्ति' शतसहस्रा-लक्षास्तेषामधिपतिः, अरजांसि-निर्मलानि थान्यम्बरवस्त्राणि-खच्छतया आकाशकल्पवसनानि तानि धरतीति, आलगितौ-यथास्थावे निषेशितो मालामुकुटौ येन अथवा आलगितमालं मुकुटं यस्य, नवाभ्यामिव-प्रत्यग्राभ्यामिन हेसः सत्काभ्यां चारुभ्यां चित्राभ्यां चञ्चलाभ्यां-इतस्ततश्चलनपराभ्यां कुण्डलाभ्यां विलिख्यमानौ गलौ यस्य, महती ऋद्धि:-छत्रादिराजचिह्नरूपा बस, महती द्युतिः-आभरणादिसम्बन्धिनी युतिवा-उचितेष्टवस्तुघटना रूपा यस्य, महाबलः, महायशाः, महाननुभावो-महिमा यस्य, भासुरा-दीप्तिमती बुन्दि-र्वपुर्यस्य, प्रलम्बा वनमाला-भूषणविशेषः पादान्तलम्बिनी पञ्चवर्णपुष्पमाला वा यस्य, 'सेणं ति' स इन्द्रः णं-वाक्यालङ्कारे, तत्र देवलोके विमानावासा-निमाना एव 'सयसाहस्सीणं ति' लक्षाणां, स्त्रीत्वं चार्षत्वात् , समानया-इन्द्रतुल्यया शक्त्यायुर्ज्ञानादिकया ऋजा चरन्तीति सामानिकाः, त्रयस्त्रिंशता त्रायस्त्रिंशा-महत्तरकल्पाः पूज्यस्थानीया मत्रिकल्पा वा तेषां, 'चउण्हं लोगपालाणं ति' चत्वारो लोकपालाःसोमयमवरुणकुबेरा दिक्पालननियुक्ताः, अप्रमहिष्यः-प्रधानपल्यस्ताव पद्मा १शिवा २ शची ३ अञ्ज ४ अमला ५ अप्सरा ६ नवमिका ७ रोहिण्या ८ ख्याः, तिस्रः पर्षदो बाबा १ मध्यमा २ भ्यन्तरा ३ जघन्यमध्यमोत्कृष्ट