________________
कल्पसूत्र ०
॥ २५ ॥
| इन्दनात्परमैश्वर्ययुक्तत्वाद्देवेन्द्रः, देवेषु राजा कान्त्यादिभिर्गुणैरधिकं राजमानत्वात् वज्रं पाणावस्येति बज्रपाणिः, असुरादिपुराणां दारणात्पुरन्दरः, शतं ऋतूनां कार्त्तिकश्रेष्ठिभवापेक्षयाऽभिग्रह विशेषाणा श्राद्धपञ्चमप्रतिमारूपाणां वा यस्यासौ शतक्रतुः कार्त्तिकश्रेष्ठिभवो वथा
पृथ्वीभूषणनाम्नि नगरे प्रजापालो नाम भूपालः, श्रेष्ठी च कार्त्तिकनामा महर्द्धिको राजमान्यः, तेन श्राद्धप्रतिमानां शतं कृतं सतः 'शतक्रतु' रिवि ख्यातिः । एकदा च गैरिकनामा परिब्राजको मासोपवासी तत्रागात्, एकं कार्त्तिकं विना सर्वोऽपि तनिवासी लोकस्तदाहतो जातः । अथावगतकार्त्तिकवृत्तान्तः स सकोषो भोजननिमित्तं निमन्त्रितो राज्ञे जगाद यदि श्रेष्ठी परिवेषयति तदा त्वनिकेतने समुधैमीति श्रुत्वा राजा श्रेष्ठिसदने गत्वा तं भुजे धृत्वाऽभ्यधात् मद्गृहे गैरिकं प्रभोजय । श्रेष्ठी जगाद त्वदाज्ञाविधायित्वाद्विश्वास्येऽहमिति । तदनु श्रेष्ठिना भोज्यमानो गैरिकोऽपि घृष्टोऽसीत्यङ्गुलीचालनचेष्टयं चकार । दध्यौ च श्रेष्ठी यदि प्रागेव प्रावजिष्यं तदिदं नाभविव्यदिति विचिन्त्याष्टश्रेष्ठि सहस्रेण समं श्रेष्ठी 'श्रीमुनिसुव्रत' स्वाम्यन्तिके प्रत्रज्याऽधीतद्वादशाङ्गीको द्वादशाब्दैः सौधर्मेन्द्रो बभूव । गैरिकोऽपि निजकर्म्मतस्तद्वाहनमेरावणाख्यं जातम्, ततः कार्त्तिकोऽयमिति ज्ञात्वा पलायमानं तं धृत्वा शक्रोऽधिरूढवान् । स च शक्रभापनार्थ शीर्षद्वयं विचकृवान् शक्रोऽपि द्विमूर्त्तिकः । पुनरपि स चतुःशीर्षः इन्द्रोऽपि चतुर्मूर्त्तिरित्यादि यावदवधिना विज्ञाय शक्रेण तर्जितो भीतः सन् तदुचितमेव रूपं विहितवान् । इति कार्त्तिकश्रेष्ठिकथा ॥
किरणाव०
॥ २५ ॥