________________
चतुष्टयः २४ ॥ २ ॥ कारणानामसामर्थ्य ५२ - मष्टाविंशतिधा मतम् । इति षष्टिः पदार्थाना - मष्टाभिः सह सिद्धि भिः ६० ॥ ३ ॥” इति । 'संखाणे त्ति' सङ्कलितव्यवकलितस्कन्धे सुपरिनिष्ठित इति योगः तच छायादिना नगगृहादिमानं यथा - " अर्द्ध ३ तोये कर्द्दमे द्वादशांशः, १२ षष्ठो भागो वालुकायां निमग्नः । सार्द्धा हस्तो दृश्यते यस्य तस्य, स्तम्भस्याशु ब्रूहि मानं विचिन्त्य ॥ १ ॥ " स्तम्भो हस्ताः षट् इत्यादि । क्वचित् 'सिक्खाणे त्ति' पाठः, तत्र शिक्षामणति - प्रतिपादयतीति शिक्षाणं- आचारोपदेशकं शास्त्रं तत्र षडङ्गवित्त्वमेवावेदयति, सिक्खाकप्पेत्यादि, शिक्षा च - अक्षरखरूपनिरूपकं शास्त्रं कल्पश्च - यज्ञादिसमाचारप्रतिपादकं शास्त्रं शिक्षाकल्पं तत्र व्याकरणे - ऐन्द्र १ पाणिनि २ जैनेन्द्रा ३ दिलक्षणशास्त्रे छन्दसि - पद्यलक्षणनिरूपके निरुक्ते - पदभञ्जने 'जोइसामयणे त्ति' 'अयि गतौ' गत्यर्था ज्ञानार्था इति ज्योतिषामयने - प्रहादीनां ज्ञाने ज्योतिःशास्त्रे इत्यर्थः, 'अन्नेसुअ त्ति' अन्येषु च बहुषु ब्राह्म|ण्येषु - वेदव्याख्यारूपेषु ब्राह्मणसम्बन्धिषु ब्राह्मणहितेषु सुपरिनिष्ठितश्चापि भविष्यति । क्वचिदेतदनन्तरं 'परिवायएसु त्ति' पाठस्तत्र परिव्राजकदर्शनप्रसिद्धेषु नयेषु आचारेषु न्यायशास्त्रेषु वेति भाव्यम् ॥ १० ॥
तंतुमेदेवाप्पिए सुमिणा दिट्ठा, जाव आरुग्गतुट्टिदीहाउअमंगलकल्लाणकारगा णं तुमे देवाणुप्पिए सुमिणा दिट्ठत्तिकद्दु भुजो भुज्जो अणुवूहइ ॥ ११ ॥
व्याख्या - तं उरालाणमित्यादितो अणुवृहद त्ति पर्यन्तम्, तत्र 'तं ति' यस्मादेवं तस्मादुदारादिविशेषणाः स्वप्नास्त्वया दृष्टा इति निगमनं 'इति कट्टु त्ति' इति भणित्वा भूयो भूयो अनुवृंहयति - अनुमोदयति ॥ ११ ॥