________________
+++
दिदर्शनादुपपेत इति भवति, अथवा सहजं लक्षणं, पश्चाद् भवं व्यञ्जनं, गुणाः सौभाग्यादयः । माणुम्माणेत्यादि, | जलेनातिभृते कुण्डे प्रमातव्य पुरुषनिवेशने यज्जलं निस्सरति तद्यदि द्रोणमानं भवेत् तदा स पुमान् मानान्वितः कथ्यत इति मानं, उन्मानं तुलारोपितश्च यद्यर्द्धभारं तुलति तदोन्मानप्राप्तः । तत्र भारमानं त्वेवम् - " षट्सर्षपैर्यवस्त्वेको, गुञ्जका च यवैस्त्रिभिः । गुञ्जत्रयेण वलः स्याद्, गद्याणे ते च षोडश ॥ १ ॥ पले च दश गद्याणास्तेषां सार्द्धशतं मणे । मणैर्दशभिरेका च, धटिका कथिता बुधैः ॥ २ ॥ घटीभिर्दशभिस्ताभिरेको भारः प्रकीर्त्तितः । इत्युन्मानम् । प्रमाणं खाङ्गुलेनाष्टोत्तरशताङ्गुलोच्छ्रयः प्रमाणप्राप्तः, यदुक्तम् - " अष्टशतं १०८ पण्णवतिः ९६, परिमाणं चतुरशीति ८४ रिति पुंसां । उत्तम १ सम २ हीनानां ३, खदेहसङ्ख्या खमानेन ॥ १ ॥" इदं च | शेषपुरुषानाश्रित्य तीर्थकृतस्तु विंशत्यधिकशताङ्गुलप्रमाणा भवेयुर्यतस्तेषां शीर्षे द्वादशाङ्गुलमुष्णीषं स्यादिति प्रमाणम् । ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि - अन्यूनानि सुजातानि - सुनिष्पन्नानि सर्वाङ्गाणि - शिरः प्रभृतीनि यस्मिं - स्तथाविधं सुन्दरम - शरीरं यस्य स तथा तं 'ससिसोमाकारं ति' शशिवत् सौम्य आकारो यस्य तं, कान्तं - कमनीयं अत एव प्रियं द्रष्टृणां दर्शनं रूपं यस्य अत एव सुरूपं - शोभनरूपम् ॥ ९ ॥
सेवि अणं दारए उम्मुक्कबालभावे विन्नायपरिणयमित्ते जुव्वणगमणुप्पत्ते रिउव्वेअ जउव्वेय सामवेअ अथव्वणवेअ इतिहासपंचमाणं निग्घंटुछट्टाणं संगोबंगाणं सरहस्ताणं चउण्हं.