________________
कल्पसूत्र
किरणाव० प्रस्सा
॥२॥
प्रसिद्धस्तस्या अनुवादः पूनात्रिमासिकपत्रद्वारा, ज्ञायते तेन यदुत तेन विदुषा तत्प्रस्तावनायां बहु व्यवसितं, परं प्रायो न समभूत् तस्य विदुषः सम्यक्परिचयः शास्त्रवेदिभिः सार्धमत इच्छाविरहेणापि विजृम्भितं तत्र दोषबाहुल्यं, परमत्र नैव यतिष्यते तदाविष्करणाय निराकरणाय च, यतस्तत्करणे भवति महान् निबन्धोऽत एव न विद्यतेऽत्र तत्करणे समीहा । तेन विदुषा विश्वस्मिन्नपि विश्वे विजयशालिनं शाश्वतं | भगवन्तं श्रीस्याद्वादसिद्धान्तं समुद्दिश्य
कारण के ते (भगवान महावीर ) गंभीर अने सर्वांगपूर्णशोध ( गवेषणा ) करवाने बदले मात्र सूक्ष्म अने श्रमसाधित भेदो। (विकल्पो ) उभा करे छे. आ सिध्धान्तनुं नाम स्याद्वाद छे"
अयमप्युल्लेखो विहितो निःशङ्कतया निर्भीकतया च, विज्ञायते तेन सुस्पष्टं यदुत विदुषाऽपि तेन विश्वविश्रुतेऽप्येतद्विषये किमपि न | विचारितं विचारणीयमपि, नानाशकालवोऽपि यतो भगवन्तं स्याद्वादं विनाऽनन्तधर्मात्मकस्योत्पादव्ययध्रौव्यात्मकस्य च वस्तुनः स्वरूपस
प्राप्तिरपि कुतः ? विश्वव्यवस्थाऽपि तत्सत्ताधीनैव नान्यथा, अत एवानिच्छुभिरपि परतीथिकैः सनातनं तमेव शरणीकृत्य कचित् कचित् वस्तुतत्त्वविषये व्यवस्था कृता, यत्र यत्र च न स्वीकृतं श्रीमत्स्याद्वादशरणं तत्र तत्र सम्प्राप्ता एव ते परां पराभूतिम्, अत एव प्रायेण सर्वैरपि सिद्धान्तरहस्यवेदिभिर्विश्वविख्यातैर्निग्रंथचूडामणिभिः पुरुषप्रवरैः परां स्तुतिमुपनीतो भगवान् स्याद्वादसिद्धान्तः । तथाहि
"आदीपमाव्योमसमस्वभावं, स्याद्बादमुद्रानतिभेदि वस्तु । तन्नित्यमेवैकमनित्यमन्य-दिति त्वदाज्ञाद्विषतां प्रलापाः ॥ १॥ य एव दोषाः किल नित्यवादे, विनाशवादेऽपि समास्त एव । परस्परध्वंसिषु कण्टकेषु, जयत्यधृष्यं जिन शासनं ते ॥२॥ नैकान्तवादे सुखदुःखभोगौ, न पुण्यपापे न च बन्धमोक्षौ । दुर्नीतिवाद्व्यसनासिनैवं, परैविलुप्तं जगदप्यशेषम् ॥ ३ ॥"
( अन्ययोगव्यवच्छेदाभिधद्वात्रिंशिकायां श्रीमद्धेमचन्द्रसूरयः)
CAUSERUMOROSAROGRA