SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ +44- 45515 जातानि ततो मा भूत्रायश्चित्तव्यवच्छेद इति साधूनामनुप्रहाय चतुर्दशपूर्वधरेण भगवता भद्रबाहुखामिना कल्पसूत्र व्यवहारसूत्रं चाकारि ।" ___ कल्पसूत्रग्रहणेन पंचकल्पोऽपि गृहीतस्तत्र किं प्रमाणमिति चेत् ? मङ्गलप्रतिपादिकायां पंचकल्पभाष्यसत्कायाम् "वंदामि महबाहुँ, पाईणं चरिमसगलसुयणाणीं । सुत्तत्थकारगमिसिं, दसाणकप्पे य ववहारे ॥ १॥" अस्यामार्यायां कथं भगवान् भद्रबाहुस्वामी नमस्कृतः ? इत्यारेकानिरासार्थ व्यवसितं खयमेव भाष्यकारेण तथाहि-"तित्थगरणमोकारो, सत्थस्स तु आइए समक्खाओ । इह पुण जेणज्झयणं, निज्मूढं तस्स कीरति तु ॥ १॥" पंचकल्पचूर्णावपि "अधुनाऽस्मिन्नामनिक्षेपे पंचकल्पसंज्ञके येनेदं दशाकल्पव्यवहारसूत्रं प्रवचनहितार्थाय पूर्वादाहृतं तस्य नमस्कार करोमि, वंदामि भद्दबाहुँ” इति । एतेन पञ्चकल्पचूर्णिकारोल्लेखेनैतदपि निश्चीयते यदुत श्रीदशाश्रुतस्कन्धोऽप्यनेनैव भगवता सूत्रितः । इदं कल्पसूत्रं तु तस्यैवाष्टमाध्ययनतया व्यरचि तेन भगवतेति तु सुतरां संसिद्धम् । अनेन निलोंठिता लुम्पकमतानुयायिनोऽपि, यतो वदन्ति ते नेदमष्टमाध्ययनं दशाश्रुतस्कन्धस्येति, सन्ति साधनानि लुम्पकशिक्षणार्थमन्यान्यपि, यतो विलोक्यते दशाश्रुतीयायां चूर्णावपि विवृतमेतत्, प्राप्यन्ते प्रतयोऽप्यनेका अष्टमाध्ययनतोल्लेखिन्यः, दृश्यते च श्रीमति स्थानानसूत्रेऽप्यस्याष्ठमाध्ययनतया स्पष्टोल्लेखः, अत एव श्रीधर्मसागरोपाध्याया अपि निःशङ्कतया निम्नलिखितमवतरणमवतारितवन्तः "प्रणेता तावत् सर्वाक्षरसन्निपातविचक्षणश्चतुर्दशपूर्वविद्युगप्रधानः श्रीभद्रबाहुस्वामी दशाश्रुतस्कन्धस्याष्टमाध्ययनरूपतया प्रत्याख्यानप्रवादाभिधाननवमपूर्वात् पर्युषणाकल्पसूत्रमिदं सूत्रितवान् ।” एतद्वतरणं दृष्ट्वा 'डॉ हर्मन जेकोबी' नामक जर्मनविदुषा 'तद्दोषदुष्टम्' इत्युक्त्वा तत्सिद्ध्यर्थ श्रमो विहितः, परमुपयुक्तप्रमाणपरिकरेण स निरर्थक एवेति तु निश्चयो सर्वेषामपि शास्त्रानुसारिणां नाऽत्र विवादस्थानमपि, परं भविष्यति सर्वेषामप्येषाऽऽशङ्का यदुत तेन जर्मनविदुषा कुत्र तादृशः श्रमो विहितः ? श्रूयतां समाधानं, लिखिता तेन विदुषा श्रीकल्पसूत्रोपरि सविस्तरा प्रस्तावनाऽऽङ्ग्लभाषायां, ACCOURSE-REO
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy