________________
धन्यान् धनावहत्वात् मङ्गल्यान् मङ्गले दुरितोपशमे साधुत्वात् सश्रीकान्-सशोभान् दृष्ट्वा प्रतिबुद्धा-जागरिता ॥॥
तं जहा-गय-वसह-सीह-अभिसेय-दाम-ससि-दिणयरं-झयं-कुंभापउमसर-सागर-विमाण-भवणरयणुच्चय-सिहिं च ॥१॥४॥ व्याख्या-तं जहेत्यादितः सिहं चेत्यनेन सम्बन्धः, तत्र गजवृषभसिंहाः प्रतीताः, अभिषेकः श्रियाः सम्बन्धी, दाम-कुसुममाला, ध्वजकुम्भौ प्रतीतौ, पद्मोपलक्षितं सरः पद्मसरः, सागरः-समुद्रः, विमानं-देवसम्बन्धि, भवनं- प्रासादः, रत्नोचयो-रत्नभृतं स्थालं, शिखी-निर्धूमाग्निः, यो देवलोकादवतरति तन्माता विमानं पश्यति, यस्तु श्रेणिकादिवन्नरकादवतरति तन्माता भवनं पश्यतीति द्वयोरेकतरदर्शनाच्चतुर्दशैव स्वप्नाः । यद्वा विमानमेव भवनमिति व्युत्पत्त्या विमानावतीर्णतीर्थकृन्माता विमानभवनं पश्यति, वर्णादिभिरतिशोभनत्वेन विमानमिव विमानसदृशं भवनमिति व्युत्पत्त्या च नरकावतीर्णतीर्थकृन्माता इति, एवेवशब्दाभ्यां तत्पुरुषसमासकरणे नाधिक्यशङ्काऽपि । यद्यप्येते वक्ष्यमाणवर्णकविशिष्टास्त्रिशलावद्देवानन्दयाऽपि दृष्टास्तथापि तथाविधफलाभावानात्र गणधरैर्विस्तरतो | व्यावर्णिता इति ॥४॥
तएणं सा देवाणंदा माहणी इमे एयारूवे उराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चउदस महासुमिणे पासित्ताणं पडिबुद्धा समाणी हट्टतुट्ठचित्तमाणंदिआ पीइमणा परमसोमण
KAKKARA%AARA