SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ किरणाव. कल्पसूत्र ॥१८॥ BASSAG+ णइ, चुएमि त्ति जाणइ, जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए वकंते तं रयणिं च णं सा देवाणंदा माहणी सयणिजंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयारूवे उराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा ॥ ३॥ व्याख्या-समणेत्यादितः पडिबुद्धत्यन्तं सम्बन्धः, तत्र 'चइस्सामि त्ति' यद्यपि देवानां षण्मासावशेषायुषां "माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससांचोपरागः।दैन्यं तन्द्रा कामरागाङ्गभङ्गी, दृष्टान्तिर्वेपथुश्चारतिश्च ॥१॥" इति भावा भवन्ति, तथापि तीर्थकृत्सुराः पुण्यप्रकर्षाद्विज्ञानकान्त्यादिप्रकर्षभाजो भवन्तीति, च्यवनं भविष्यत्कालं जानाति, व्यवमानस्तु न जानाति च्यवनस्यैकसामयिकत्वेन तज्ज्ञानागम्यत्वाजघन्यतोऽपि छामस्थिकज्ञानोपयोगस्यान्तर्मुहूर्तिकत्वात् च्यवनकालं भगवान् न जानातीति, च्युतस्तु जानाति च्युतोऽस्मीति पूर्वभवायातज्ञानत्रिकसद्भावादिति 'जरयणि ति' यस्यां रजन्यां सुत्तजागर त्ति सुप्तजागरा-नातिसुप्ता नातिजाप्रती अत एव 'ओहीरमाणी ओहीरमाणी' पुनः पुनः ईषन्निद्रां गच्छन्ती 'इमे' इत्यादि, इमान् महावनानिति विशेषणविशेष्यभावसम्बन्धः, एतदेव-व्यावर्णितमेव रूपं-खरूपं न न्यूनमधिकं वा कविकृतं येषां ते तथा तान् उदारान्-प्रशस्तान् कल्याणान्कल्याणानां शुभसमृद्धिविशेषाणां हेतुत्वादथवा कल्यं-नीरोगतामणति-गमयंतीति तान् शिवानुपद्रवोपशामकत्वात्
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy