________________
कल्पसूत्र ०
॥ १७ ॥
पुव्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं आहारवकंतीए भववकंतीए सरीरवकंतीए कुच्छिसि गव्भत्ताए वक्कते ॥ २ ॥
व्याख्या - तेणमित्यादितो गन्भताएवकंते त्ति यावत्, तत्र 'तेणं ति' प्राग्वत् तस्मिन् काले तस्मिन्समये श्रमणो भगवान् महावीरः कुक्षौ गर्भतया व्युत्क्रान्त इति संबन्धः, 'जे से त्ति' यः सः, 'गिम्हाणं ति' आर्षे ग्रीष्मशब्दः स्त्रीलिङ्गो बहुवचनान्तश्च ततो ग्रीष्मस्येत्यर्थः । 'छट्ठीपक्खेणं ति' अहोरात्रस्य दिवारात्रिभ्यामुभयपक्षात्मकत्वात् पश्याः प्रक्षे- पथ्यास्तिथे रात्रौ णमिति पूर्ववत् । क्वचित् 'छट्ठीदिवसेणं ति पाठः स च दिवसशब्दस्य तिथिवाचकत्वेन व्यक्त एव, महाविजयेत्यादि महान् विजयो यस्मिन् तच्च तत्पुष्पोत्तरं च- पुष्पोत्तरसंज्ञं च तदेव प्रवरेषु - प्रधानेषु पुण्ड - रीकं सर्वविमानेष्वति श्रेष्ठत्वात् तस्मात् कचिचैतदनन्तरं 'दिसासोवत्थिआओ वद्धमाणाओ ति' पाठस्तत्र दियवस्थितात् आवलिकागतविमानमध्यस्थात् वर्द्धमानाच्च सर्वप्रकारेणेत्यर्थः । आउक्खरणमित्यादि आयुः - देवायुर्भवो देवगतिः, स्थितिः - आहारो वैक्रियशरीरेऽवस्थितिर्वा, तेषां क्षयेण, अनन्तरं - अव्यवहितं व्यवं- च्यवनं चित्वा - कृत्वेत्यर्थः, अथवाऽनन्तरं - देवभवसंबन्धिनं चयं देहं त्यक्त्वा - विमुच्य इहेवेति देशतः प्रत्यासन्ने न पुनर्जम्बूद्वीपा - नाम संख्येयत्वादन्यत्रेत्यर्थः । 'सागरोवमकोडाकोडीए' इत्यादिना चतुर्थारकस्य प्रमाणमवगन्तव्यम्, 'पंचहत्तरीए' इत्यादि, सार्धाष्टकमासाधिकैः पञ्चसप्तत्या वर्षेः शेषैः को भावः- श्रीवीरनिर्वाणात् सार्धाष्टमासाधिकैस्त्रिभिर्वर्षैश्चतु
किरणाव०
॥ १७ ॥