SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ४ किरणाव कल्पसूत्र ॥१६॥ व्याख्या-हत्युत्तराहि त्ति' हस्तोत्तराभिरुत्तरफाल्गुनीभिश्चन्द्रयोगे च्युतो देवभवात् , च्युत्वा च गर्भ व्युत्क्रान्तःउत्पनः, गर्भात् गर्भ 'साहारिए त्ति' संक्रामितः 'जाए त्ति' जातो-योनिवर्त्मना निर्गतः 'मुंडे त्ति' मुण्डो बाह्यतः केशलुञ्चनेन अभ्यन्तरस्तु कषायेन्द्रियमनोनिग्रहेणेति द्रव्यभावाभ्यां मुण्डितो भूत्वा, अगारात्-विश्लेषे पञ्चमीति गृहकासं परित्यज्य, अनगारितां-साधुतां प्रव्रजितः-स्वीकृतवान् साधुखरूपमापन इत्यर्थः। 'अणंते त्ति' अनन्तार्थविषयत्वादनन्तं, सर्वोत्कृष्टत्वादनुत्तरं, कटकुट्यादिभिरप्रतिहतत्वात् निर्व्याघातम्, क्षायिकभावोत्पन्नत्वेन सर्वावरणापयमानिराकरणम्, अनन्तपर्यायोपेतभूतभवद्भविष्यदशेषविशेषसामान्यात्मकवस्तूनां सर्वतः सर्वथा प्रकाशकत्वेन कृत्स्ना ग्राहकत्वात्कृत्स्नं, पूर्णिमामृगाङ्कमण्डलमिव सकलखांशयुक्तत्वात्प्रतिपूर्ण, एवंविधमपि केवलं-असहायं खविषयप्रकाप्रशने नान्यसजातीयमपेक्षत इत्यर्थः, अत एव वरं-प्रधानं न पुनः श्रुतज्ञानवदुपकारकत्वेन ज्ञानश्च दर्शनञ्च ज्ञानदर्शनं ततः प्रापदाभ्यां कर्मधारयः सर्वत्र प्राकृतत्वात् पुंस्त्वनिर्देशः । ननु अनन्तमनुत्तरमित्यादिविशेषणैरुभयोरपि निर्विशेषत्वेनोक्तत्वात् यदेव ज्ञानं तदेव दर्शन मिति पर्यायवाचित्वापन्नयोयोर्ग्रहणमयुक्तमिति चेत् । मैवं, समानविषयत्वेऽपि ज्ञानं तावत्प्रधानविशेषोपसर्जनीकृतसामान्यार्थः ग्रहणलक्षणम्, दर्शनं पुनः प्रधानसामान्योपसर्जनीकृतविशेषार्थग्रहणलक्षणमिति, विशेषस्य विद्यमानत्वात् । को भावः-ज्ञानं तावत् खविषय प्रकाशयदशेषविशेषान् प्रधानभावेन प्रकाशयति, यावत्सामान्यानि तु गौणभावेन । दर्शनं तु यावत्सामान्यानि प्राधान्येनाशेषविशेषांश्च मोण्येनेति । 'समुप्पण्णे त्ति' सं-सम्यगुत्पन्न-समुत्पन्नं सर्वथा तदावरणापगमात्सर्वतः-सर्वांशैः प्रादुर्भूतमित्यर्थः, न त इत्यर्थः, अत एव वर-प्रधान नबनिर्देशः । ननु अनन्तमयुक्तमिति चेत् ! मै । SAHASRAE%86-54-% ॥१६॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy