________________
उसन्नाणं संजईणं च पुरओ कप्पो न पढिअब्बो ति॥" औत्सर्गिकवचनात्, सभासमक्षं कल्पसूत्रवाचनमपि पुत्रमरणार्तस्य ध्रुवसेननृपस्य समाधिहेतवे प्रवृत्तत्वेन कारणिकमेव तदपि परिहरणीयम् । नो चेचतुर्थ्या किमपराद्धं तव | परं ज्ञायते तीर्थसम्मतयुगप्रधानप्रवर्त्तितत्वमेव तस्या महानेवापराधः, कथमन्यथा कारणिकत्वे समानेऽपि पतिभेदः, तस्मादुभे अपि स्वीकर्तव्ये, परिहर्तव्ये चोभे अपीति । प्रतिबन्दीपाशपतितस्य तेऽन्यस्य मोक्षोपायस्यासम्भवेन परित्यज तीर्थानादृतत्वेन मृतमातृकल्पां पञ्चमी, स्वीकुरु च तीर्थाटतत्वेनैव कल्पलताकल्पां चतुर्थी जिनाज्ञात्वात् । एवमन्यमप्येवंविधपुरुषप्रवर्तितं जिनाज्ञा, न पुनः खगृह एव पण्डितमन्येन येन केनचित् यत्किञ्चिदपीत्यलं विस्तरेण । यद्यपि विस्तरभीत्या एतावत्या अपि युक्तेरुद्भावनमसङ्गतमिवाभाति, तथापि कालानुभावात्प्रायो भूयाञ्जनो भूयस्यप्यन्तरे विद्यमानेऽप्यभेदमेव मन्यते, स एव तावदनया दिशा युक्तिलेशं निशम्य भेदं जानात्विति नासङ्गतिदोषः, किन्तु तदनुकम्पैवेति सुस्थम् । अथ प्रकृतमुच्यते-कथं पञ्चहस्तोत्तरो भगवानभूदिति व्यक्त्यर्थं तद्यथेत्यादिना मध्यमवाचनां निर्दिशति
तं जहा हत्थुत्तराहिं चुए, चइत्ता गम्भं वकंते, हत्थुत्तराहिं गब्भाओ गन्भं साहरिए, हत्थुत्तराहिं जाए, हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारिअं पव्वइए, हत्थुत्तराहिं अणंते, अणुत्तरे, निव्वाघाए, निरावरणे, कसिणे, पडिपुन्ने, केवलवरनाणदसणे समुप्पन्ने, साइणा परिनिव्वुए भयवं ॥१॥