SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ किरणाव० कल्पसूत्र० ॥१५॥ पालविकोऽपि तं कोपितवानित्यपि चित्रं चेतसि पर्यालोच्यम् । तथा च यत्र वापि षट्कल्याणकव्याख्यानमुपलभ्यते तद्यथासंभवं क्वचिदभिनिवेशात् क्वचिच्चानाभोगादवगन्तव्यम् । अन्यथा श्रीहरिभद्रसूर्यादीनां सम्मतेरकिञ्चित्करत्वेन मूलभङ्गापत्तिः, तस्मान्मूलाधखण्डनयैव स्कन्धादीनां कुशलता, तदुच्छेदे तु तेषामप्युच्छेद एवेति विचिन्त्य, प्रव-| चनाऽविसंवाद्येव वचः प्रमाणीकर्तव्यम् । अन्यथा यदि सर्वसम्मतानां श्रीहरिभद्रसूर्यादीनां वचोभिर्विसंवाद्यपि वचः प्रमाणीस्यात्, तर्हि अस्माकमपि वचनं विसंवादिवचनेन विसंवाद्येव सत्सुतरां प्रमाणीभवत् केन प्रतिषेधुं शक्यम्, इत्याद्यपि वावदूकवदनहृदप्रादुर्भूतप्रतिबन्दीनदीसन्तरणोपाये मूकतैवाश्रयणीया स्यादिति विचिन्त्य चतुरैनै मूलमु-४ न्मूलनीयम् । ननु यद्येवं तर्हि वीरण भगवता पञ्चम्यां पर्युषितत्वेन चतुर्थ्याः खीकारे सुतरां मूलोन्मूलनमेवेति चेत् ? मैवम् । नहि वयं तीर्थकृत्कृत्यमनुसृत्य प्रवर्तामहे, किन्तु तीर्थकृतां तदनुकारिणां चागमविदामाज्ञामेव । अन्यथा है ट्रातीर्थकृदनुपात्तत्वेन रजोहरणाधुपकरणमपि परिहरणीयं स्यात् । न स्याच श्रीस्थूलभद्रयोगीन्द्रमपेक्ष्य वेश्याजनोपा-12 न्तोपवेशनमपि परिहरणीयमिति । आज्ञा च तथाकारार्हस्य युगप्रधानस्य श्रीकालिकसूरेवंचोऽङ्गीकारेणेव यदागमः-1 “कप्पाकप्पे परिनिट्ठिअस्स ठाणेसु पञ्चसु ठिअस्स । संजमतवट्टगस्स उ, अविगप्पेणं तहकारो ॥१॥ ति।" अन्यथाकरणे च प्रत्युत मूलोन्मूलनमेव । अथ "कारणिआ चउथि त्ति” वचनात् कारणिक्येव चतुर्थी, कारणं तावत्कालकसूरेरेव तदानीं नेदानीमस्माकमपीति नास्माभिरङ्गीक्रियते इति चेत् ? तर्हि "अण्णउथि वा गार-13 त्थि वा पजोसवेति ति" निशीथसूत्रं तचूणिर्यथा-"गिहत्थाणं अन्नतिथिआणं गिहत्थीणं अन्नतिथिणीणं
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy