SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ किन्तु - " कहमियाणि चउत्थीए अपवे पज्जोसविज्जइ" इति प्रभृत्येव, तथा च चतुर्थी न केवलं प्रवचनपूजाभिवृद्धिबुद्ध्यैव प्रवर्त्तिता, किन्तु जिनाज्ञापर्यालोचनयैव । यश्च षष्ठकल्याणकप्ररूपणाया आदिकर्तुः सुविहिताप्रणीत्वमुक्तं तच्च सुविहितानुजत्वमन्तरेणासम्भवि । यदागमः - "हंतूण सत्रमाणं, सीसो होऊण ताव सिक्खाहि । सीसस्स हुति सीसा, न हुंति सीसा असीसस्स ॥ १ ॥ ति ।" तच्चास्य विचार्यमाणं विशीर्येत । चैत्यवासं परित्यज्य कस्यापि सुविहितस्य पार्श्वे चारित्रस्याऽग्रहात्, नवीनमतप्रवर्त्तनेन संघबाह्यत्वाच्च । न चैतद्वचनं रागद्वेषविलसितं, 'देशमाख्याति भाषितम्' इति वचनात्, तदीयभणितेरेवोपलम्भात् । कथमन्यथा स्वयमेव " सङ्घनाकृतचैत्यकूटपतितस्यान्तस्तरां ताम्यतः, तन्मुद्रादृढपाशबन्धनवतः शक्तस्य न स्पन्दितुम् । मुक्त्यै कल्पितदानशीलतपसोऽप्येतत्क्रमस्थायिनः, सङ्घव्यात्रवशस्य जन्तुहरिणत्रातस्य मोक्षः कुतः ॥ १ ॥” इति सङ्घपट्टकसूत्रे त्रयस्त्रिंशत्तमकाव्येन तत्कालवर्त्तिसङ्घ व्यात्रोपमयोपावर्णयिष्यत् । कथं वा तट्टीकायां ऐदंयुगीनसङ्घप्रवृत्तिपरिहारेण सङ्घबाह्यत्वप्रतिपादनममीषां भूषणं न तु दूषणमिति सङ्घबाह्यता तस्य व्याख्यास्यदिति । न चैवं यथार्थमपि स्वयमेव स्वोपघातकं कथमुक्तवान् इति चित्रं चिन्तनीयम् । मतिभ्रमेऽपि घुणाक्षरन्यायेन नानाश्चर्यात् कथमन्यथा गणनानुक्रमेण द्वितीयमपि गर्भापहारं भोः श्रावकाः ! अद्य श्रीमहाबीरस्य षष्ठं गर्भापहारकल्याणकमिति वचश्चातुर्यात् केनाप्यप्रकाशितं पूर्व मयैव प्रकाश्यत इत्यज्ञापयिष्यत् । किञ्च आस्तामन्यः, शतपद्यामपि औष्ट्रिकाचरणायाः कथं प्रामाण्यं १, यतो जिनवल्लभेन सिद्धान्तविरुद्धमेव षष्ठं कल्याणकं व्यवस्थापितम्, जिनदत्तेन च स्त्रीपूजापलाप इत्याद्यर्थालापकवचोभिः शतपदीकारः
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy