SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र किरणाव० ॥१४॥ |ऽपीति प्रागुक्तत्वद्भणितिरपि । यदुक्कं प्रवचनपूजाभिवृद्धिबुयेति तदप्यसारम् , जिनाज्ञातिक्रमेण स्वमतिविकल्पितस्य | सुन्दरस्यापि सुन्दराभासत्वेन मिथ्यात्वप्रसक्त्यानर्थहेतुत्वात् । यदागमः-"अप्पागमो किलिस्सइ, जद वि करेइ अइदुक्करं तु तवं । सुन्दरबुद्धीद कयं, बहुअंपि न सुन्दरं होई ॥१॥त्ति।" ननु भोः! "नो से कप्पर तं रयणि उवायणावित्तए ति" षष्ठीनिषेधवत् "तं च पुण्णिमाए पंचमीए दसमीए, एक्माइएसु पसु पजोसवेअचं, नो अप-12 वेसु ति" निशीथचूादिवचनात्, चतुझं अपि निषेधात्, प्रवचनविरुद्धापि चतुर्थी राज्ञ उपरोधेन प्रवच-18 नपूजाभिवृद्धिबुद्ध्यैव खीकृता, तत्र का गतिरिति चेत् ? सत्यं, शृणु, युगप्रधानश्रीकालिकसूरिस्तीर्थसम्मतो न तीर्थकृतामाज्ञामतिक्रामति, तदतिक्रमे च युगप्रधानत्वादिव्याहतेरिति तवापि सम्मतम् । एवञ्च सति यथा साधुना सचित्तवनस्पत्यादिस्पर्शो न विधेयो, न सेव्या च योषित्, इति निषेधसाम्येऽपि गिरिनधाधुत्तारे बल्ल्याचवलम्बन जिनाज्ञा न पुनर्योषित्सेवापि, तथा षष्ठीचतुर्योदृश्यमाननिषेधसाम्येऽपि महदन्तरम् । यतः-श्रीकालिकसूरेरेव षष्ठी नाज्ञेति पर्यालोचनया चतुर्थीखीकारे कश्चिद्विशेषो वक्तव्यः, स च विशेषः पर्यालोच्यमान आज्ञाऽनाज्ञाभ्यामेव कृतः, नान्यः । तथा च षष्ठीनिषेधो निरपवादिकः, सापवादिकश्च चतुर्थ्या निषेधः, इति संपन्नं चतुर्थी जिनाज्ञेति । अन्यथा तत्कालवर्त्तिसर्वसङ्घसम्मता न प्रावर्तिष्यत, तत्कालवर्तिसर्वसङ्घसम्मतत्वञ्च तदनुकालवर्त्तिसर्वसङ्घसम्मतत्वान्यथानुपपत्त्या सूपपादमेव । अन्यथा पक्षद्वयानुवृत्त्या चूर्णिकारादयः “केह सोहम्मावञ्चिजा पञ्चमीए डू |पज्जोसवेंति केइ पुण कालगावचिज्जा चउत्थीए अपवे पजोसवेंति ति" विकल्पोऽकथयिष्यन् , तच नोक्तम् ।। RANA
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy