________________
कत्वमतिव्रततिरुत्सूत्रवृक्षमारोहन्ती तावकीना केन पापात्मना मर्दिता? आह-आस्तां सिद्धान्तपक्षः, परं यथाऽनाग-2 मिक्यपि कालिकसूरिप्रवर्तिता चतुर्थी तदनुजानां प्रमाणम्, तथा तथाविधमपि प्रवचनपूजाभिवृद्धिबुद्ध्या सुविहिताग्रणीश्रीजिनवल्लभवाचनाचार्यप्रवर्तितं गर्भसंहरणमपि कल्याणकं तदनुजानां प्रमाणीभवत् केन निवारयितुं शक्यमिति चेत् ? को निवारयिता ? स्त्रीपूजानिषेधवदिदमप्यनागमिकं युज्यते एव । भवन्तः प्रमाणयन्ति न वेति में चेत् ? नैवेति ब्रूमः, यतो नहि वयं तदनुजा, न वा सोऽस्माकं पूर्वजः । न चैवं चतुर्थ्यामपि युक्तेः सामान्यम्, चतुर्थी | तावत्तत्कालवर्तिसर्वसङ्घप्रमाणीकृतत्वेन तदनुकालवर्त्तिनापि सर्वसद्धेन प्रमाणीकृता, अतस्तदन्तर्वर्तिनामस्माकं सहू | पूर्वजो, वयं च तदनुजा इति । षष्ठं कल्याणकं तु त्वदीयव्यवस्थापितसमुदायेनैव प्रमाणीकृतम् , न पुनः परम्परायाततीर्थकृदाज्ञावर्त्तिसङ्केनेति कुतस्त्यं तौल्यम् ? त्वदीयसमुदायस्य च तीर्थकृदाज्ञावर्तित्वखीकारे श्रीहरिभद्रसूरिश्रीअभयदेवसूर्यादीनां पञ्चकल्याणकवादिनां तीर्थबाह्यता स्यात् , तच्च तवाप्यनभिमतम्, अतो भवानेव तथेति किं न विचार-13 यसि ? यचतुर्थ्या अनागमिकत्वमुक्तं तदप्ययुक्तम्, अनागमिकप्रवर्त्तने श्रीकालिकसूरेयुगप्रधानत्वव्याहतेः । अनाभोगे च तत्कालवर्त्तिसङ्घनिवारणाऽभविष्यत् । न च तदानीन्तनसङ्घस्तदायत्तस्तं प्रति निवारयितुमशक्तः । तीर्थव्यवस्थापितः सङ्घस्तीर्थस्य तीर्थकृतो वा आज्ञातिक्रमे महान्तमपि पुरुष निवारयत्येव । कथमन्यथा चतुर्दशपूर्वविदमपि श्रीभद्रबाहुखामिनं सङ्घाज्ञातिक्रमणे किं प्रायश्चित्तमितिवचसा प्रबोध्य मिथ्यादुष्कृतमदापयिष्यत् । आस्तां सङ्घः,४ सङ्घाज्ञावर्तिप्रद्धरमपि मानुषं तीर्थकृदाज्ञातिक्रमणे निवारयति, यया षष्ठकल्याणकव्यवस्थापकं त्वदीयं गुरुमार्यिका
TAGRAM