SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र ० ॥ १३ ॥ सकललोकप्रत्यक्षं प्रकाशितः । यो न शेषसूरीणां - अज्ञातसिद्धान्तरहस्यानामित्यर्थः लोचनपथेऽपि दृष्टिमार्गेऽपि | आस्तां श्रुतिपथे व्रजति-याति, उच्यते पुनर्जिनमतज्ञैर्भगवत्प्रवचन वेदिभिरिति गाथार्थः । " तथा " पूएइ मूलपडिमं पि साविआ चिइनिवासिसम्मत्तं । गग्भापहारकलाणगंपि न हु होइ वीरस्स ॥ १ ॥ त्ति ।" जिनदत्ताचार्यकृतोत्सूत्रपदोद्घाटनकुलके । इत्यादिवचोव्यञ्जितां श्रीहरिभद्रसूरि श्री अभयदेव सूर्यादीनां पञ्चकल्याणकवादिनां क्वचिदज्ञानोद्भावनेन कचिचोत्त्रभाषणेन हीलनां कुर्वन्, प्रागुक्तरीत्याऽऽर्यिकया निवार्यमाणोऽपि निजमताविष्करणार्थ षष्ठं कल्याणकं व्यवस्थापयंश्च कथमनाभोगवान् ? कथं वा तदपत्यमिति खयमेव रहस्यालोच्यम् । एतेन पञ्चकल्याणकवादिनां प्रागुक्तानामनाभोगशंकापि व्युदस्ता, तदीयप्राचीनानां षट्कल्याणक विषयकभणितेरनुद्भावनात् । यत्तु " पञ्चहत्थुत्तरे | होत्था साइणा परिनिचुडे भयवं ति” भणितेरुभावनं ततु तदुद्भावयितुरेवानाघ्रात सिद्धान्तगन्धत्वाभिव्यञ्जकमु तरीत्या मन्तव्यम् । ननु कल्याणकाधिकारप्रतिबद्धत्वात् शक्रजीतत्वाच्च कथं न तस्य कल्याणकत्वमिति मे मतिरिति चेत् ? सत्यं, तर्हि – “उसभेणं अरहा कोसलिए पंचउत्तरासाढे अभिइछट्ठे होत्था । तं जहा- उत्तरासादाहिं चुए चइत्ता गब्र्भ वक्ते १ उत्तरासाढाहिं जाए २ उत्तरासाढाहिं रायाभिसे पत्ते ३ उत्तरासादाहिं मुण्डे भवित्ता अगाराओ अणगारिअं पचइए ४ उत्तरासादाहिं जाव समुप्पन्ने ५ अभिइणा परिनिबुडे ६ त्ति" श्रीजंबूद्वीपप्र| ज्ञप्तिसूत्रे ऋषभराज्याभिषेकस्य कल्याणकाधिकारप्रतिबद्धत्वात् प्रथमतीर्थकृतराज्याभिषेकस्य च शक्रजीतत्वेन श्रीहा| रिभद्यामावश्यकवृत्तावुक्तत्वाच्च अद्भुतपुण्यप्रकृतिजन्यस्य जन्मवदनाश्चर्यभूतस्य च श्री ऋषभराज्याभिषेकस्यापि कल्याण किरणाव० ॥ १३ ॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy