________________
४ क०
| यत आह - " तत्र कृतचतुर्मासकानां श्रीजिनवल्लभवाचनाचार्य्याणामाश्विनमासस्य कृष्णपक्ष त्रयोदश्यां श्रीमहावीरगर्भापहारकल्याणकं समागतम्, ततः श्राद्धानां पुरो भणितं जिनवल्लभगणिना भोः श्रावकाः ! अद्य श्रीमहावीरस्य षष्ठं गर्भापहारकल्याणकं पञ्चहत्युत्तरे होत्था साइणा परिनिबुडे भगवमिति' प्रकटाक्षरैरेव सिद्धान्ते प्रतिपादनात् । अन्यच, तथाविधं किमपि विधिचैलं नास्ति, ततोऽत्रैव चैत्यवासिचैत्ये गत्वा देवा बन्द्यन्ते, तदा शोभनं भ वति । गुरुमुखकमलविनिर्गतवचनाराधकैः श्रावकैरुक्तं भगवन् ! यद्युष्माकं सम्मतं तत्क्रियते, ततः सर्वे श्रावका निर्मलशरीरा, निर्मलवस्खा, गृहीतनिर्मलपूजोपकरणा गुरुणा सह देवगृहे गन्तुं प्रवृत्ताः, ततो देवगृहस्थितयाऽऽर्यि|कया गुरुश्रावकसमुदायेनागच्छतो गुरून् दृष्ट्वा पृष्टम्, को विशेषोऽय ? केनापि कथितम्, वीरमर्भापहारकल्याणककरणार्थमेते समागच्छन्ति । तया चिन्तितं पूर्व केनापि न कृतमेतदेतेऽधुना करिष्यन्ति इति न युक्तम् । पश्चात्संगती देवगृहद्वारे पतित्वा स्थिता, द्वारप्राप्तान् प्रभूनवलोक्यो कमेतया दुष्टचित्तया मया मृतया यदि प्रविशत, तारगप्रीतिकं ज्ञात्वा निवर्त्य ( नृत्य ) स्वस्थानं गताः पूज्याः ।” इत्यादि जिनदत्ताचार्यकृतगणधर सार्धशतकस्य वृत्तौ । तथा - "असहाएणावि विही, पसाहिओ जो न सेससूरीणं । लोअणपहे वि वचइ, वुबह पुण जिणमयण्णूहि ॥ १२२ ॥ ति । " गणधरसार्धशतके द्वाविंशतिशततमी गाथा, तद्वृत्तिर्यथा - "ततो येन भगवताऽसहायेनापि - एकाकिनापि परकीयसाहाय्यनिरपेक्षं, अपिः- विस्मये अतीवाश्चर्यमेतत् विधिः- आगमोक्तः षष्ठकल्याणकरूपश्चैत्यादिविषयः पूर्वप्रदशितश्च प्रकारः - प्रकर्षेणेदमित्थमेव भवति, योऽत्रार्थेऽसहिष्णुः स बावदीतु इति स्कंधास्फालनपूर्वकं साधितः