________________
व्याख्या - वासावासमित्यादितो दगफुसिआ वा णो परिआवजह त्ति यावत्, तत्र अगिहंसि त्ति अनाच्छादिते| आकाशे इत्यर्थः, पिण्डपातं आहारं प्रतिगृह्य पज्जोसवित्तए आहारयितुं न कल्पते, पज्जोसवेमाणस्स कदाचिदाकाशे भुञ्जानस्य यद्यर्द्धभुक्तेऽपि वृष्टिपातः स्यात् तदा पिण्डपातस्य देशं भुक्तवा देशं चादाय पाणिमाहारैकदेशसहितं पाणिना - द्वितीयहस्तेन परिधाय - आछाद्य उरसि - हृदये निलीयते - निक्षिप्येत् वाणमिति तं साहारं पाणि कक्षायां वा समाहरेत्-अन्तर्हितं कुर्यात् एवं च कृत्वा यथाछन्नानि - गृहिभिः खनिमित्तमाच्छादितानि लयनानि-गृहाणि उपागच्छेत् वृक्षमूलानि वा, यथा से तस्य पाणौ दकादीनि न पर्यापद्यन्तेन्न पतन्ति वा, तत्र दकं - बहवो विन्दवः दकरजो - बिन्दुमात्रं दगफुसिआ फुसारं अवश्याय इत्यर्थः । ननु जिनकल्पिकादयो देशोनदशपूर्वरत्वेनातिशयज्ञानिनस्तैश्च प्रागेवोपयोगः कृतो भविष्यतीति कथमर्धमुक्तेऽपि वृष्टिः सम्भवेत् ? सत्यं छाद्मस्थिकोपयोगस्तथा स्यान्न | वेत्यदोषः ॥ २९ ॥ उक्तमेवार्थ निगमयन्नाह
वासावासं प० पाणिपडिग्गहिअस्स भिक्खुस्स जं किंचि कणगफुसिअमित्तं पि निवडइ नो से कप्पइ गाहा०स० पा० नि० प० ॥ ३० ॥
व्याख्या-वासावासमित्यादितः पवित्तिए त्ति यावत्, तत्र कणगफुसिअमित्तं पि त्ति कणो - लेशस्तन्मात्रकं पानीयं कणकं तस्य फुसिआ - फुसारमात्रम् ॥ ३० ॥ उक्तः पाणिपात्रविधिः । अथ पतद्ब्रहधारिणस्तमाह--→