SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ सूत्रं वक्तुं युक्तं, तथापि सूत्रकाराणां विचित्रा गतिरिति नाऽतिर्विधेया । यच कल्याणकबन्धबन्धुरे श्रीवीरचरित्रे | "पंचहत्थुत्तरे होत्था" इत्यादाक्कल्याणकभूतखापि गर्भापहारस्योशस्तद्देवानन्दाकुक्षाववतीर्णः प्रसूतवती च त्रिशलेति महत्यसङ्गतिस्तन्निवारणार्थ अवश्यं वक्तव्यत्वानक्षत्रसाम्याचावयन्तव्यम् । अत एव यत्र कापि श्रीवीरचरित्रं तत्र सर्वत्रापि 'पंचहत्थुत्तरे होत्था' इत्येवसूत्रं उक्तकारणस्य सर्वत्रापि सत्त्वात् , यत्र तु ऋषभचरित्रं तत्र क्वचिद्राज्याभिषे-18 कस्यावश्यं वक्तव्यत्वाभावेन 'चउउत्तरासाढे त्ति' क्वचिच सूत्रान्तरे नक्षत्रसाम्यात् 'पञ्चउत्तरासाढे तिन तत्र दोषः । ननु संदेहविषौषध्यां गर्भापहारस्य कल्याणकत्वेन व्याख्यानात् षट्कल्याणकनिबन्धबन्धुरं श्रीवीरचरित्रमिति कथं नोक्तमिति चेत् ? मैवं, गर्भापहारस्य कल्याणकत्वेन क्वाप्यागमे व्याख्यानानुपलम्भात्, प्रत्युताचारादिभिर्विसंवा|दित्वेन प्रत्यक्षागमबाधाच, तथाहि-“पञ्चहत्थुत्तरे होत्थ त्ति" आचाराङ्गे, तट्टीका यथा-हस्त उत्तरो यासां उत्तरफाल्गुनीनां ता हस्तोत्तरास्ताश्च पञ्चसु स्थानेषु गर्भाधान-संहरण-जन्म-दीक्षा-ज्ञानोत्पत्तिलक्षणेषु संवृत्ताः, अतः पञ्चहस्तोत्तरो भगवानभूदित्यत्र पञ्चसु स्थानेषु इत्येव व्याख्यातम्, न पुनः कल्याणकेष्विति स्वयमेवालोच्यम् । तथा "इअते दिणा पसत्था ता सेसेहिं पि तासु कायछ । जिणजत्ताइ सहरिसं ते अ इमे वद्धमाणस्स ॥१॥ आसाढसुद्धछट्ठी १ चित्ते तह सुद्धतेरसी २ चेव । मग्गसिरकिण्हदसमी ३ वेसाहे सुद्धदसमी ४ अ॥२॥ कत्तिअकिण्हे चरमा ५ गम्भाइदिणा जहक्कम एते । हत्थुत्तरजोएणं चउरो तह साइणा चरमो ॥३॥" इति श्रीहरिभद्रसूरिकृतयात्रापञ्चाशके । श्रीअभयदेवसूरिकृततट्टीकादेशो यथा आषाढशुद्धषष्ठी-आषाढशुक्लपक्षषष्ठीतिथिरित्येकं दिनं १ एवं चैत्र
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy