________________
कल्पसूत्र क्तकालान्तर्गत एव परमनिकृष्टकालविशेषः, यद्वा हेतौ तृतीया, ततश्च पूर्वन्यायादेव यौ कालसमयौ श्रीऋषभा॥११॥
दिजिनैः श्रीवीरस षण्णां च्यवनादीनां वस्तूनां हेतुतया प्रतिपादितौ । न च च्यवनादीनां वस्तुत्वेन व्याख्यानमनागमिकं, चूादिषु तथैव व्याख्यानात्, यतः-"जो भगवता उसभसामिणा सेसतित्थगरेहि अ भगवतो वद्धमाणसामिणो चवणाईणं छण्हं वत्थूणं कालोणातो दिवो वागरिओ अ । तेणं कालेणं तेणं समएणं ति।" इति पर्युषणाकल्पचूर्णौ तथा श्रीदशाश्रुतचूर्णौ च । तेन हेतुभूतेन कालेन समयेन च समणे त्ति श्रमूच् खेदतपसोरिति श्राम्यति तपस्यतीति श्रमणो-घोरतपोनुष्ठायीत्यर्थः-यद्वा समणे त्ति पदं मूलातिशयचतुष्टयसूचकं तथाहि-"अनुत्तरसुरसंशयनिरासार्थ सत्यपि केवलज्ञाने मनसः प्रयोगात् सह मनेन-मनसा, वर्तत इति समना इत्यनुत्तरसुरसंशयनिरासकत्वेन ज्ञानातिशयः १ रागाधुपद्रवशमकत्वाद् भगवानपि शमन इत्यपायापगमातिशयः २ सम्यग् यथास्थितं
अणति ब्रूत इति समणो-अबाधितसिद्धान्तगतिरिति वचनातिशयः ३ सह मानेन सुरासुरनरेश्वरादिकृतपूजया है वर्तत इति समान इति पूजातिशयः ४ हस्खत्वं च प्राकृतत्वात् । भगवान्-समप्रैश्वर्यादिसंयुक्तः । महावीरः
कर्मशत्रुजयादन्वर्थनामान्तिमो जिनः।पंचहत्थुत्तरे त्ति, हस्तादुत्तरदिशि वर्तमानत्वात् हस्त उत्तरो यासां वा हस्तोपल
क्षिता वा उत्तरा हस्तोत्तरा-उत्तरफल्गुन्यः ताश्च पञ्चसु-पञ्चस्थानेषु यस्य स पञ्चहस्तोत्तर इति भगवद्विशेषणं, निप्राणस्य खातौ जातत्वात्, होत्थति अभवत् । यद्यप्यग्रे निर्वाणस्याप्यवश्यं वक्तव्येनादावपि-"उसमे णं अरहा
कोसलिए पञ्चउत्तरासाढे अभिइछडे होत्थ ति" सूत्रवत् “समणे भगवं महावीरे पञ्चहत्युत्तरे साइछढे होत्थ ति"।