SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ अष्टमतपसि कविघटना त्वेवं-"किं रत्नत्रयसेवनं किमथवा शल्यत्रयोन्मूलनं, किं वा चित्तवचोवपुःकृतमलप्रक्षालनं सर्वतः । किं जन्मत्रयपावनं किमभवत् विश्वत्रयाय्यं पदं, धन्यैर्यद् विहितं कलावपि जनैः पर्वोपवासत्रयम् ॥१॥” इति श्रीकल्पकिरणावल्यां कल्पव्याख्यानप्रारम्भपद्धतिः। . . | अथात्र कल्पाध्ययने त्रीणि वाच्यानि, तथाहि-जिनानां चरितानि १, स्थविरावली २, पर्युषणासामाचारी ३, चेति, उक्तञ्च-"पुरिमचरिमाणकप्पो मंगलं वद्धमाणतित्थंमि । इह परिकहिआ जिणगणहराइथेरावली चरितं?" व्याख्या-वर्षा पततु मा वा, पर्युषणा तावदवश्यं कर्तव्येति प्रथमचरमयोः ऋषभवीरयोस्तीर्थे कल्पः मङ्गलं च वर्धPमानतीर्थे यस्मादेवं तस्मादिह परिकथितानि जिनानां चरितानि १ गणधरादिस्थविरावली २ चरित्रं ३ चेति, तत्रापि साम्प्रतीनतीर्थाधिपतित्वेन प्रत्यासन्नोपकारित्वादादावेव श्रीभद्रबाहुखामिपादास्तद्भवव्यतिकरावाप्तपश्चकल्याणकनिबन्धबन्धुरं श्रीवीरचरित्रं सूत्रयन्त उद्देशनिर्देशसूचकप्रायं जघन्यमध्यमवाचनात्मकं प्रथमसूत्रमादिशन्ति ते णं काले णं ते णं समए णं समणे भगवं महावीरे पंच हत्थुत्तरे होत्था ॥१॥ व्याख्या ते णं कालेणमित्यादितः परिनिव्वुडे भयवमितिपर्यन्तम् । तत्र यत्तदोर्नियाभिसम्बन्धात् यत्रासौ खामी दशमदेवलोकगतपुष्पोत्तरप्रवरविमानाद्देवानन्दाकुक्षाववातरदिति यच्छब्दघटितमन्वयमध्याहृत्य ते णं ति ते तस्मिन् णमिति वाक्यालङ्कारे, काले वर्तमानावसर्पिण्याश्चतुरिकलक्षणेणंकारः पूर्ववत् , अथवाऽऽर्षत्वात्सप्तम्यर्थे तृतीयामधिकृत्य तेणं कालेणं ति तस्मिन्काले, तेणं समएणं ति तस्मिन् समये, परं समयो, जीर्णशाटकस्फाटनदृष्टान्तेन प्रागु
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy