________________
ॐॐॐ
व्याख्या-वासावासं० पविसत्तए ति यावत् , तत्र संखादत्तिअस्स त्ति सङ्ख्यया उपलक्षिता दत्तयो यखेति सञ्जयादत्तिकस्तस्य दत्तिपरिमाणवत इत्यर्थः, लोणासायण त्ति लवणं किल स्तोकं दीयते यदि तावन्मात्रं भक्तपानस्य गुण्हाति साऽपि दत्तिर्गण्यते अतो लवणाखादनमात्रमपि प्रतिगृहीता दत्तिः स्यात्, पञ्चेत्युपलक्षणं तेन चतस्त्रस्तिस्रो द्वे एका षट् वा सप्त वा यथाऽभिग्रहं वाच्याः, केनचित्पञ्च दत्तयो भोजनस्य लब्धाः तिस्रश्च पानकस्य ततोऽवशिष्टाः पानसक्ता भोजने भोजनसक्ता वा पाने इत्येवं समावेशोऽकल्प्य इत्यर्थः ॥ २६ ॥
वासावासं पजोसविआणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा जाव उवस्सयाओ सत्तघरंतरं संखडि संनियदृचारिस्सइत्तए, एगे पुण एवमाहंसु नो कप्पइ जाव उवस्सयाओ परेणं संखडिं सन्निअट्टचारिस्सइत्तए, एगे पुण एवमाहंसु ना व परेणं संखडि संनियदृचारिस्सइत्तए ॥ २७॥ व्याख्या-वासावासमित्यादितः संनिअट्टचारिस्सइत्तए ति यावत् , तत्र उपाश्रयात्-शय्यातरगृहादारभ्य यावसप्तगृहान्तरं-सप्तगृहमध्ये संखडि ति संस्क्रियते इति संस्कृतिः-ओदनपाकस्तां गन्तुं न कल्पते-पिण्डपानार्थ तत्र न गच्छेदित्यर्थः, तेषां गृहाणां सन्निहिततया साधुगुणहृतहृदयत्वेनोगमादिदोषसम्भवात् एतावता-शय्यातरगृहमन्यानि च षडासन्नगृहाणि वर्जयेदित्युक्तं, कस्य न कल्पते इत्याह-सन्निअट्टचारिस्स त्ति निषिद्धगृहेभ्यः सन्निवृत्तश्च: