________________
कल्पसूत्र०
॥१८६॥
क्वापि शुद्धविकटशब्दस्य व्याख्यानमुपलभ्यते तदुष्णोदकपरमेव न पुनर्वैकल्पिकमपीति । उसिणवियडे इत्युष्णजलं तदप्यसिक्थम् , यतः प्रायेणाष्टमोर्ध्व तपखिनः शरीरं देवताऽधितिष्ठति, भत्तपडिआइक्खिअस्स त्ति प्रत्याख्यात| भक्तस्थानशनिन इत्यर्थः, परिपूए त्ति वस्त्रगतिं अपरिपूते तृणकाष्ठादेर्गले लगनात्, तदपि परिमितमन्यथाऽजीर्ण स्थात्, क्वचित् से वि अणं बहुसंपुन्ने नो वि अणं अबहुसंपुण्णे इति, तत्र ईषदपरिसमाप्तं सम्पूर्ण-बहुसम्पूर्ण 'नाम्नः प्राग् बहुर्वा' इति बहुप्रत्ययः, स्तोकतरे हि तृण्मात्रस्यापि नोपशम इति, एवमागमसिद्धेऽप्युत्खेदिमाशुष्णावसाने पानीये प्रत्याख्यानमगाद्यसद्दोषमाविष्कृत्य वर्णान्तरमात्रापन्नं शीतलजलमेवोत्सर्गतः पिबन्तः पानीयाहारलाम्पव्यात्रसेष्वप्यनुकम्पारहिता दीर्घसंसारिणोऽवगन्तव्याः, न चैवंविधपानीयं पिबन्तः सचित्ताहारपरित्यागिनः श्रावका अप्युपलभ्यन्ते तेषामपि त्रसानुकम्पाराहित्यं सम्पत्स्यते इति शङ्कयम् , यतः तैर्वस्त्रपूतीकृतव्यापारितजलादवशिष्टस्य सत्रसजलस्य यतना कर्तुं शक्यत न पुनस्तद्वत्साधुभिरपीति ॥ २५॥ वासावासं प० संखादत्तिअस्स भिक्खुस्स कप्पति पंचदत्तीओ भोअणस्स पडिगाहित्तए पंच पाणगस्स, अहवा चत्तारि भोयणस्स पंच पाणगस्त, अहवा पंच भोयणस्स चत्तारि पाणगस्स, तत्थ णं एगा दत्ती लोणासायणमित्तमवि पडिगहिया सिया कप्पइ से तदिवसं तेणेव भत्तटेणं पज्जोसवित्तए, नो से कप्पइ दुच्चंपि गा० भ० पा०नि०प०॥ २६ ॥
P॥१८६॥