________________
किरणाव०
कल्पसूत्र ॥१८॥
HASHASAॐॐ
वाहिनी तादृशी नदी लंघयितुं कल्पते स्तोकजलत्वात् , पर्युषणाकल्पटिप्पनके त्वेरावती नदी वर्षाकाले अक- ल्प्यत्वेनैव व्याख्याताऽस्ति, परं बृहत्कल्पादिभिर्विसंवादित्वाद्विचार्यमेवैतद् व्याख्यानमिति । जत्थ चक्किा त्ति यत्र शक्नुयात् सिआ यदि एकं पादं जलमध्ये निक्षिप्य एकं च पादं स्थले-आकाशे कृत्वा द्वाभ्यां पादाभ्यामविलोडयन् गन्तुं शक्नुयात् तदा तत्परतः स्थितप्रामादौ भिक्षाचर्या कल्प्या नान्यथा, एकं पादं जलान्तः प्रक्षिपति द्वितीयं च जलादुपर्युत्पाटयति तदा कल्प्या, जलं विलोड्य गमने त्वकल्प्येत्यर्थः ॥ १२॥ .
एवं च नो चक्किआ एवं से नो कप्पइ सव्वओ समंता सकोसं जोयणं गंतुं पडिनिअत्तए ॥ १३ ॥ व्याख्या एवं चेत्यादितो निअत्तए ति यावत् , तत्र एवं च यत्र न शक्नुयात् गत्वा प्रत्यागन्तुं तत्र न गच्छेत् ।। यत्र च जबाधं यावदुदकं स दकसहः नाभिं यावलेपः तत्परतो लेपोपरि, तत्र ऋतुबद्धे काले भिक्षाचर्यायां यत्र त्रयों दकसबहाः वर्षासु च सप्त भवेयुस्तत्र क्षेत्रं नोपहन्यते चतुरादिभिरष्टादिभिश्च तैरुपहन्यते, ते च ऋतुबद्धे |गतागतेन पट्र वर्षासु च चतुर्दश स्युः, लेपश्चैकोऽपि क्षेत्र हन्ति किं पुनर्लेपोपरि, तथा यदि चतुरो मासान् एकद्वियादिदिनान् वा उपोषितः स्थातुमशक्तः तदा जघन्यतोऽपि पूर्वक्रियमाणनमस्कारसहितादेः पौरुष्यादितपोवृद्धिं कुर्यादिति ॥ १३॥
वासावासं पजोसवियाणं अत्थेगइयाणं एवं वृत्तपुव्वं भवइ, दावे भंते! एवं से कप्पड़, दावित्तए नो से कप्पइ पडिगाहित्तए ॥ १४ ॥
॥१८॥