________________
कल्पसूत्र०
[किरणाव०
॥१७९॥
SHARE
न त्यक्ष्यसि तर्हि त्वत्तः सहकारादयः प्रशस्तवनस्पतयोऽचेतना अपि शस्ताः, यंतस्तेऽप्यधिकमासे प्रथममासं परित्यज्य द्वितीयमास एव निजपुष्पफलादिकं प्रयच्छन्ति, यत उक्तम्-"जइ फुल्ला कणिआरया, चूअग! अहिमासयंमि घुटुंमि । तुह न खमं फुल्लेउ, जइ पञ्चंता करिति डमराई ॥१॥” इति श्रीआवश्यकनियुक्तौ । त्वं तु ततोऽप्यचेतन इति त्वया सह विचारो न युक्तिसङ्गतः, यतः-"लभेत सिकतासु तैलमपि यत्नतः पीडयन् , पिबेच मृगतृष्णिकासु सलिलं पिपासार्दितः । कदाचिदपि पर्यटन् शशविषाणमासादये-त्र तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥१॥" इत्युपेक्षव प्रत्युत्तरम् । यत्तु कश्चित् श्रायणिकविशेषः 'अभिवड्डिअंमि वीसाइअरेसु सवीसइमासो'त्ति अक्षरबलेन विंशत्यापि दिनोचादिपञ्चकृत्यविशिष्टं पर्युषणापर्व करोति तदत्यन्तासङ्गतम् , यतस्तदधिकरणादिदोषाद्यमावेन गृहिज्ञातमात्रापेक्षया पर्युषणाकरणं न तु सांवत्सरिकप्रतिक्रमणादिविशिष्टं पर्वापि, अन्यथा “आसाढीपुण्णिमाए पज्जोसर्विति एस उस्सग्गो सेसकालं पजोसविताणं सबो अववाओ"त्ति श्रीनिशीथचूर्णिदशमोद्देशकवचनादापाढपूर्णिमायामेवौत्सर्गिक पर्व करणीयं स्यात् नापवादिकान्यपराणि, अथवा 'इत्थ य पणगं पणगं, कारणिसं जा सवीसइमासो । सुद्धदसमीडिआणं, आसाढीपुण्णिमोसरणं ॥१॥ ति श्रीपर्युषणाकल्पनियुक्त्यादिवचनादाषाढशुद्धदशम्या आरभ्य पञ्चसु पञ्चसु दिनेषु गतेषु पर्युपणा कृता विलोक्यते, तथाविधाने च पर्वणोऽनयत्यात् । “तत्थ णं बहवे भवणवइ-वाणमंतर-जोइसिआवेमाणिआ देवा चाउम्मासिअपाडिवएसु संवच्छरेसु अ अण्णेसु अ बहुसु जिणजम्मणनिक्खमणनाणुप्पत्तिपरि
॥१७९॥