SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ SSSSSSSSSS क्षीणायां चतुर्दशापि दिनाः पञ्चदशैवेति बोध्यम् , तद्वदत्रापि विवक्षितं कृत्यं सांवत्सरिकप्रतिक्रमणादिकं, तच्च नियतं भाद्रपदे, स च यद्यभिवर्द्धितस्तदा प्रथमं परित्यज्य द्वितीयोऽधिक्रियते दिनगणनायां त्वस्यान्यस्य वा मासस्य वृद्धौ सम्भवन्तोऽप्यशीतिर्दिनाः पञ्चाशदेव गण्यन्ते यथा तवाप्यभिमता पञ्चमास्यपि चतुर्मासीति । यचोक्तं साधुदानादेः प्रयासमात्रतेति तदयुक्तमेव, यतः साधुदानजिनपूजादिकं न मासप्रतिबद्धं किन्तु दिनमात्रप्रतिबद्धं, तच्च यं कञ्चन दिनमवाप्यापि कर्त्तव्यमेव, तत्रापि क्षणविशेषनियतत्वेन, रात्रिक-दैवसिकप्रतिक्रमणयोरपि निरालम्बनं जिनोक्तवेलामतिक्रम्य परावर्त्य वा करणेऽनाज्ञैव, पाक्षिककृत्यमपि पाक्षिकप्रतिक्रमणादिकं तच चतुर्दशीनियतं तच्च यां काञ्चन चतुर्दशीमवाप्य कर्तव्यम् । तथा तन्मासि किं पातकं न भवति उत बुभुक्षा न लगतीत्याधुन्मत्तोपहसनेऽपीयमेव रीतिरनुसतव्या, यतः-पातकं तु प्रति प्राणिनं प्रतिसमयं तथाविधाध्यवसायादिसामयनुरूपमुत्पद्यते न पुनर्नियतमासाद्यपेक्षयेति, एवं बुभुक्षाऽपि तथावि-|| धवेदनीयकम्र्मोदयादेव भवति न पुनर्दिवसमासाद्यपेक्षया. अन्यथा मनुष्यक्षेत्राबहिर्वतिनां तिरश्चां दिवसमासादिरूपकालासम्भवेन बुभुक्षाया अभाव एव सम्पद्यतेत्यादि खयमेवालोच्य बालचेष्टितं परिहर्त्तव्यम् । न च पर्युषणापर्वणो मासनयत्येऽपि तिथिरपि चूादिषु पञ्चम्येव नियता दृश्यते तत्कथं चतुर्थीकथनमिति शक्यम्, युगप्रधानश्रीकालकसूरेः पूर्व पञ्चम्येव, इदानीं तु सर्वसङ्घाभिमततत्प्रवर्तिता चतुर्युव, एवमागमयु[क्तियुक्ते भाद्रपदविशेषितपर्युषणापर्वणि सत्यपि भोः श्रावणिक ! खकीयकदाग्रहादश्राव्यमपि श्रावणपर्युषणापर्व
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy