________________
होहि ति साहू चेइए अ ण पजुवासेस्सं ततो छट्टीए पज्जोसवणा किजउ, आयरिएहि भणि ण यद्दति अतिक्कमित, ताहे रण्णा भणितं ता अणागयचउत्थीए पज्जोसविजति, आयरिएहिं भणि एवं भवउ, बाहे| चउत्थीए पजोसविलं, एवं जुगप्पहाणेहिं कारणे चउत्थी पवत्तिआ सा चेवाणुमता सबसाहूणं" इत्यादि श्रीनिशीथचूर्णिदशमोद्देशके । तथा तत्रैव कषायविषये 'गच्छो अ दुन्निमासे' इत्यादियाथाव्याख्याने “भदवयसुद्धपंचमीए अधिकरणे उप्पण्णे संवच्छरो भवइ, छट्ठीए एगदिणूणो संवच्छरो भवति एवमिक्किक्कदिणं परिहरंतेण ताव आणेअवं जाव ठवणदिणु"त्ति । एवमन्येष्वपि ग्रन्थेषु यत्र क्वापि पर्युषणानिरूपणं तत्र भाद्रपदविशेषितमेव, आस्तामन्यः श्रावणिकसगोत्रः सन्देहविषौषधीकारोऽपि कल्याणकादिषु खमतं पोषयन्नपि पर्युपणापर्व तु भाद्रपदविशेषितमेवोक्तवान्, न पुनः क्वापि केनाप्यभिवर्द्धितमासे श्रावणविशेषितं सर्वसाधुसर्वचैत्यवन्दना १ आलोचना २ ऽष्टमतपो ३ लोच ४ वार्षिकप्रतिक्रमण ५ विशिष्टं पर्युषणापर्व प्रतिपादितम् , यत्तु कश्चित् किमधिकमासः काकेन भक्षितः किं वा तस्मिन् मासि पातकं न भवति उत बुभुक्षादिकंन लगतीत्याधुपहास्यवाक् भवति, स हि यक्षावेशोज्झितवसनोऽप्यलतपुरुषं प्रत्युपहसन्निवावगन्तव्यः, कथमन्यथा पञ्चभिर्मासैश्चतुर्मासकं त्रयोदशभिश्च द्वादशमासात्मकं संवत्सरमभिवद्धितवर्षे ब्रुवाणोऽपीत्थमकथयिष्यत्, ननु सर्वत्राप्यागमे "चउन्हें मासाणं अटुण्हं पक्खाण"मित्यादि तथा "बारसण्हं मासाणं चउवीसण्हं पक्खाण" मित्यादि पाठ एवोपलभ्यते, न पुनस्तत्स्थाने क्वापि पंचण्डं मासाणं दसण्हं पक्खाणं पंचासुत्तरसयराइंदि
CCOR-SAMACANA-
CHAROKAR