________________
सम्यग् न ज्ञायतेऽतः पञ्चाशतैव दिनैः पर्युषणा सङ्गतेति वृद्धाः, अत्र कश्चिदुच्छ्वणः श्रावणिकः शङ्कते, ननु |भोः! श्रावणवृद्धौ श्रावणसित चतुर्थ्यामेव पर्युषणापर्व युक्तं न पुनर्भाद्रपदसितचतुर्थी दिनानामशीत्यापत्त्या, "समणे भगवं महावीरे वासाणं सवीसइराए मासे विइकते वासावासं पजोसवेइ"त्ति श्रीपर्युषणाकल्पसूत्रादि-18 प्रवचनबाधा स्यादिति चेत् ? आहोश्विद्देवानुप्रिय! आश्विनमासवृद्धावाश्विनमास एव चतुर्दश्यां चतुर्मासककृत्यं कर्तव्यं स्यात् कार्तिकसितचतुर्दश्यां तु शतदिनापत्त्या, “समणे भगवं महावीरे वासाणं सवीसहराए मासे वइकंते सत्तरिराइदिएहिं सेसेहिं वासावासं पज्जोसवेइ"त्ति श्रीसमवायाङ्गादिप्रवचनबाधा स्थादित्यपि वक्तव्ये वाचालय ते किमयुक्तं स्यात् आगमन्यायस्योभयत्रापि समानत्वात् । ननु भवेदेवं यदि चतुर्मासकान्याषाढादिमासप्रतिबद्धानि न स्युः, तस्मात्कात्तिकचतुर्मासकं कार्तिकसितचतुर्दश्यामेव युक्तं दिनगणनायां त्वधि|कमासः कालचूलेत्यविवक्षणादिनानां सप्ततिरेवेति कुतः प्रवचनबाधेति चेत् ? अहो ! सुदृग् पर्युषणापर्वापि भाद्रपदप्रतिबद्धं भाद्रसितचतुर्थ्यामेव युक्तं दिनगणनायां त्वधिकमासः कालचूलेति पञ्चाशदेव दिनाः सम्पद्यन्ते कुतोऽशीतिवार्ताऽपि, न च भाद्रपदप्रतिबद्धत्वं पर्युषणापर्वणोऽनागमिकं बहुष्वागमेषु प्रतिपादनात्, तथाहि| "अण्णया पजोसवणादिवसे आगए अजकालगणं सालवाहणो भणिओ भदवयजुण्हपंचमीए पज्जोसवणा, रण्णा भणिओ" इत्यादि श्रीपर्युषणाकल्पचूर्णी, तथा-"सीसो पुच्छति इआणिं कहं चउत्थीए अपवे पजोसविजति ? आयरिओ भणति कारणिआ चउत्थी अजकालगायरिएण पवत्तिआ, कहं भण्णते कारणं,
क०४५